________________
त्रिषष्टिशलाकापुरुषचरिते ।।१७९॥
RESIHARSHASHARAS-
सप्तमं पर्व सप्तमः तर्गः रामलक्ष्मणरावणचरितम् ।
उपलङ्कमथो हंसद्वीपे हंसरथं नृपम् । जित्वा तस्थौ कृतावासस्तत्रैव रघुपुङ्गवः ॥ १३ ॥ आसन्नस्थेऽथ काकुत्स्थे मीनस्थित इवाऽर्कजे । लङ्का क्षोभमुपेयाय विष्वक् प्रलयशङ्किनी ।। १४ ।। सन्नह्यन्ति स्म युद्धाय सामन्ता रावणस्य ते । हस्तप्रहस्तमारीचसारणाद्याः सहस्रशः ।। १५ ।। रावणो रणतूर्याणि दारुणान्यथ कोटिशः । किङ्करैस्ताडयामास द्विषत्ताडनपण्डितः ।। १६ ।। तदा दशास्यमभ्येत्य नत्वाऽवोचद् बिभीषणः । क्षणं प्रसीद विमृश शुभोदकं वचो मम ॥ १७ ॥ अविमृश्य पुरा चक्रे लोकद्वितयघातकम् । परदारापहरणं लज्जितं तेन ते कुलम् ।। १८ ॥ निजभार्या समानेतुं काकुत्स्थोऽयमुपस्थितः । आतिथ्यमिदमेवाऽस्मै तत्कलत्रार्पणं कुरु ।। १९ ।। सीतां त्वत्तोऽन्यथाकारमपि रामो ग्रहीष्यति । निग्रहीष्यति चाऽशेषं त्वया सह कुलं तव ।। २० ॥ दूरे स्तां रामसौमित्री तौ साहसखरान्तकौ । तत्पत्तिरेको हनुमान् दृष्ये देवेन किं न हि ? ||२१ ।। इन्द्रश्रियोऽधिका श्रीस्ते तां सीताकारणेन मा । परिहार्षीर्भवेदेवमुभयभ्रष्टता तव ।। २२ ॥ अथेन्द्रजिदुवाचैवं त्वया ह्याजन्मभीरुणा । दूषितं नः कुलं सर्वं नाऽसि तातस्य सोदरः ।। २३ ।। इन्द्रस्याऽपि विजेतारं नेतारं सर्वसम्पदाम् । तातं सम्भावयन्नेवं नूनं मूर्ख ! मुमूर्षसि ।। २४ ।। पुराऽपि च्छलितस्तातस्त्वया ह्यनृतभाषिणा । प्रतिज्ञाय दशरथवधं यदकृथा न हि ॥ २५ ॥ इहाऽऽयातं दाशरथिं ताताद्रक्षितुमिच्छसि । दर्शयन् भयमुत्पाद्य भूचरेभ्योऽपि निस्त्रप! ॥ २६ ॥ तन्मन्ये रामगृह्योऽसि मन्त्रेऽप्यधिकरोषि न । आप्तेन मन्त्रिणा मन्त्रः शुभोदर्को हि भूभुजाम् ।। २७ ।। १ शनौ मीनराशिस्थिते । २ रामपक्षपाती ।
| लायां
सत्राता।
॥१७९ ॥
INSPEE