SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 11902 11 सप्तमः सर्गः अथ रामः ससौमित्रिः सुग्रीवाद्यैर्वृतो भटैः । लङ्काविजययात्रायै प्रतस्थे गगनाध्वना ॥ १ ॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोऽपि च ॥ २ ॥ महाविद्याधराधीशाः कोटिशोऽन्येऽपि तत्क्षणम् । चेलू रामं समावृत्य स्वसैन्यैश्छन्नदिङ्मुखाः ॥ ३ ॥ ॥ युग्मम् ॥ विद्याधरैराहतानि यात्रातूर्याण्यनेकशः । नादैरत्यन्तगम्भीरैर्बिभराञ्चक्रुरम्बरम् ॥ ४ ॥ विमानैः स्यन्दनैरश्वैर्गजैरन्यैश्च वाहनैः । खे जग्मुः खेचराः स्वामिकार्यसिद्धावयैवः ।। ५ । उपर्युदन्वतो गच्छन् ससैन्यो राघवः क्षणात् । वेलन्धरपुरं प्राप वेलन्धरमहीधरे ।। ६ ।। समुद्रसेतू राजानौ समुद्राविव दुर्धरौ । तत्र रामाग्रसैन्येनाऽऽरेभाते योद्धुमुद्धतौ ॥ ७ ॥ नलः समुद्रं सेतुं च नीलोऽबध्नान्महाभुजः । उपराममनैषीच्च मनीषी स्वामिकर्मणि ॥ ८ ॥ काकुत्स्थः स्थापयामास तथैव पुनरेव तौ । रिपावपि पराभूते महान्तो हि कृपालवः ॥ ९ ॥ समुद्रोऽपि हि रूपाभिरामा रामानुजन्मने । रौमामतल्लिकास्तिस्रः प्रददौ निजकन्यकाः ।। १० ।। उषित्वा तां निशां सेतुसमुद्रानुगतः प्रगे । क्षणादासादयामा सुवेलाद्रिं रघूद्वहः ॥ ११ ॥ सुवेलं नाम राजानं जित्वा तत्राऽपि दुर्जयम् । उवासैकां निशां रामः प्रातर्भूयश्चचाल च ।। १२ ।। १ गर्विष्ठाः । २ मनीषा बुद्धिरस्यास्तीति तथा । ३ रामासु स्त्रीषु मतल्लिकाः श्रेष्ठाः । सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावण चरितम् । रावणेन सह युद्धार्थ ससैन्यस्य रामस्य लङ्कां प्रति प्रयाणम् । ।। १७८ ।।
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy