________________
त्रिषष्टिशलाका
पुरुषचरिते ।।१७७ ।।
हन्यतां गृह्यतां चैष इति जल्पति रावणे । अनाथामिव सोऽभाङ्क्षीत्तत्पुरीं पाददर्दरैः ।। ४०५ ।। क्रीडां कृत्वैवमुत्पत्य सुपर्ण इव पावनिः । राममेत्याऽनमत्सीताचूडारत्नं समर्पयन् ।। ४०६ ।। सीताचूडामणि तं तु साक्षात्सीतामिवाऽऽगताम् । आरोपयामास हृदि स्पृशन् रामो मुहुर्मुहुः ॥ ४०७ ॥ आलिङ्ग्य दाशरथिना सुतवत्प्रसादात् पृष्टः शशंस दशवक्त्रविमाननां ताम् । सीताप्रवृत्तिमखिलां हनुमान् यथावदाकर्ण्यमानभुजविक्रमसम्पदन्यैः ॥ ४०८ ॥
܀ ܀ ܀ ܀ ܀
| इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि सीताप्रवृत्त्यानयनो नाम षष्ठः सर्गः ।
܀ ܀
१ पादावेव दर्दराः पर्वतास्तैः । २ गरुडः । ३ रावणस्यापमानपर्यन्ताम् ।
सप्तमं पर्व षष्ठः
सर्गः
रामलक्ष्मणरावणचरितम् ।
।। १७७ ।।