________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७६॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
मारुतिं रावणः स्माऽऽह दुर्मते ! किं कृतं त्वया ? ।आजन्म मामकीनेनाऽऽश्रितौ यत्तौ तपस्विनौ ।।३८९ ॥ वनेवासौ फलाहारौ मलिनौ मलिनांशुकौ । किराताविव तौ तुथै तुभ्यं कां दास्यतः श्रियम् ? ॥३९० ॥ तत्राऽपि मन्दबुद्धे ! त्वं तद्वाचा किमिहाऽऽगमः ? ।येनेहाऽऽयातमात्रोऽपि प्राप्तोऽसि प्राणसंशयम् ॥३९१ ॥ दक्षौ भूचारिणौ तौ तु यत्ताभ्यां कारितोऽस्यदः । अङ्गारान् परहस्तेन कर्षयन्ति हि धूर्तकाः ।। ३९२ ।। यत्सेवकवरो मे त्वमद्य दूतः परस्य च । तदवध्योऽसि रे ! शिक्षामात्राय तु विडम्ब्यसे ।। ३९३ ॥ हनुमानप्युवाचैवं कदाऽहं तव सेवकः ? । कदा ममाऽभूस्त्वं स्वामी ? वदन्नेवं न लज्जसे ? ॥३९४ ।। एकदा युधि सामन्तो बहुम्मन्यः खरः स ते । त्वन्मैत्र्या वरुणबन्धान्मत्पित्रा मोचितः पुरा ।। ३९५ ।। साहाय्यार्थं त्वयाऽऽहूतोऽहमप्यभ्यागमं पुरा । रणे वरुणपुत्रेभ्यस्त्वामरक्षं च सङ्कटे ।। ३९६ ॥ साहाय्यस्य न योग्योऽसि साम्प्रतं पापतत्परः । सम्भोषोऽपि हि पापाय परस्त्रीहारिणस्तव ।। ३९७ ॥ त्वदीये तं न पश्यामि यो हि त्वां त्रास्यतेऽधुना । एकस्मादपि सौमित्रेदूर रामस्तदग्रजः ।। ३९८ ॥ तद्राि कुपितो भालाहितभूकुटिभीषणः । दशाननो दशन्नोष्ठं दशनैरिदमभ्यधात् ।। ३९९ ॥ मद्दरी यच्छ्रितोऽसि त्वं मां चाऽरीकृतवानसि । तन्नूनं मर्तुकामोऽसि वैराग्यं तत्र किं तव ? ॥४०० ॥ यथा कुष्टविशीर्णाङ्ग मुमूर्षुमपि कोऽपि न । हत्याभयान्निहन्त्येवं हन्यात् को दूतमप्यरे! ॥ ४०१ ॥ आरोप्य रासभे पञ्चशिखीकृत्य च सम्प्रति । अन्तर्लङ्क प्रतिपथं भ्राम्यसे लोकवेष्टितः ।। ४०२ ॥ इत्युक्तो मारुतिः क्रुद्धोऽत्रोटयत् पाशपन्नगान् । बद्धो हि नलिनीनालैः कियत्तिष्ठति कुञ्जरः ? ॥ ४०३ ॥ तडिद्दण्ड इवोत्पत्य किरीटं राक्षसप्रभोः । कणशश्चूर्णयामास पादघातेन मारुतिः ।। ४०४ ।। १ वने वासो ययोस्तावलुक्समासः ।२ आलापोऽपि । ३ तव परिवारे । ४ मामशत्रु शत्रु कृतवान् विः ।
रामसेवक| स्यापि कियत्पराक्रम, | तद्धनुमान् | दर्शयति ।
।। १७६ ॥