________________
त्रिषष्टिशलाकापुरुषचरिते ||१७५॥
| सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
मुधा कपे ! गर्जसीति तर्जयन रावणात्मजः । ववर्ष विशिखैस्तीक्ष्णैरक्ष्णोः प्रसररोधिभिः ।। ३७६ ॥ श्रीशैलोऽपीषुवर्षेण सप्रकर्षेण रावणिम् । पिदधे वारिभिर्वीपमुद्वेल इव वारिधिः ।। ३७७ ।। शस्त्राशस्त्रि चिरं कृत्वा कौतुकादञ्जनासुतः । रणपारंपरिप्रेप्सुरक्षं पशुमिवाऽवधीत् ॥ ३७८ ।। ततो भ्रातृवधामर्षादाययौ द्रुतमिन्द्रजित् । मारुते ! तिष्ठ तिष्ठेति ससौष्ठवमुदीरयन् ।। ३७९ ।। द्वयोरपि महाबाह्रोः कल्पान्त इव दारुणः । विश्वविक्षोभकरणश्चिरं प्रववृते रणः ।। ३८० ॥ वर्षन्तौ वारिधारावन्नीरन्ध्राः शस्त्रधोरणीः । व्योमस्थौ तावलक्ष्येतां पुष्करावर्तकाविव ॥३८१ ॥ अन्तरीक्षं तयोरस्त्रैरास्फलद्भिर्निरन्तरैः । क्षणादजनि दुःप्रेक्ष्यं यादोभिरिव वारिधिः ।। ३८२ ।। मुमोच यावन्त्यस्त्राणि दुर्वारो रावणात्मजः । तदनेकगुणैरस्त्रैस्तानि चिच्छेद मारुतिः ।। ३८३ ।। हनूमदस्त्रक्षुण्णाङ्गाः सर्वेऽपीन्द्रजितो भटाः । अनश्यन् रेक्तहदिनीपर्वता इव जङ्गमाः ।। ३८४ ।। दृष्ट्वा नष्टं निजं सैन्यं स्वं च मोघीकृतायुधम् । अमुञ्चन्नागपाशास्त्रं श्रीशैलाय दशास्यसूः ।। ३८५ ।। नागपाशैर्द्रढीयोभिस्तदैवाऽऽपादमस्तकम् । अबन्धि चन्दन इवाऽभितः पवननन्दनः ।।३८६ ।। स नागपाशबन्धोऽपि समसाहि हनूमता । कौतुकाद्धि क्षणं दत्ते शक्तो जयमपि द्विषाम् ।। ३८७ ।। हृष्टेनेन्द्रजिता निन्ये हनूमानुपरावणम् । निरीक्ष्यमाणः फुल्ला! राक्षसैर्जयसाक्षिभिः ।।३८८ ।। १ बाणैः ।२ हनूमान् । ३ युद्धस्य पारं प्राप्तमिच्छुः । ४ अन्तररहिताः । ५ शस्त्रपरम्पराः शस्त्रसमूहानिति यावत् । ६ शोणितनदीनां पर्वताः । ७ विफलीकृतान्यायुधानि यस्य तम् । ८ असह्यत ।९ समर्थः पुरुषः कौतुकम् क्षणं यावत् शत्रूणां जयमपि दत्ते पराजयं तु दत्त एव ।
| हनुमता पराक्रमप्रदर्शनम् ।
॥ १७५ ॥