________________
त्रिषष्टिशलाकापुरुषचरिते ।।१७४॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मण| रावण|चरितम् ।
त्वयि सम्भाव्यते सर्व पदातौ रामशाह्मिणोः । परन्तु परपुंस्पर्शो न मेऽर्हति मनागपि ।।३६१ ।। तद्गच्छ शीघ्रमेवैवं सति सर्वं कृतं त्वया । गते त्वयि यदुद्योगमार्यपुत्रः करिष्यति ।। ३६२ ।। अथेत्यं स्माऽऽह हनूमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिद्विक्रमचापलम् ।।३६२ ॥ जितकाशी दशास्योऽयं परवीर्यं न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् ।। ३६४ ।। आमेत्युक्त्वाऽर्पयत्तस्य सीता चूडामणि निजम् । नत्वा सोऽपि चचालोच्चैः पादन्यासैधुवन् धराम् ॥३६५ ।। तदेव देवरमणोद्यानं भक्तुं प्रचक्रमे । स वनं वनद्विपवत् प्रसरत्करविक्रमः ।। ३६६ ।। रक्ताशोकेषु निःशूको बकुलद्रुष्वनाकुलः । सहकारेष्वकारुण्यो निष्कम्पश्चम्पकेष्वपि ॥३६७ ।। अमन्दरोषो मन्दारेष्वदयः कदलीष्वपि । अन्यद्रुष्वपि रम्येषु भङ्गलीलां चकार सः ॥३६८ ।।।युग्मम् ।। तदुद्याने चतुरि द्वारपालाः क्षेपाचराः । अधावन्त निहन्तुं तं तदा मुद्गरपाणयः ।। ३६९ ।। हनूमति स्खलन्ति स्म तेषां प्रहरणानि तु । महाम्भोनिधिकल्लोला इव तीरमहीधरे ॥३७० ।। पौवनिः कुपितस्तेभ्यस्तैरेवोद्यानपादपैः । प्रजहार निरायासः सर्वमस्त्रं बलीयसाम् ।। ३७१ ॥ मञ्जु वृक्षानिवाऽभाङ्क्षीत्तानारक्षक्षपाचरान् । क्षुद्रानैक्ष्वाकुपत्तिः स समीरण इवाऽस्खलन् ।। ३७२ ।। हनूमता क्रियमाणमुद्यानारक्षसङ्क्षयम् । गत्वाऽऽचचक्षिरे केचित्क्षपाचरपतेस्तदा ।। ३७३ ।। ततः सह बलैरक्षकुमारं राक्षसेश्वरः । समादिक्षद्धनूमतो घातनायाऽरिघातनम् ।।३७४ ।। आक्षिपन्तं रणायाऽक्षं बभाषे पावनायिः । भोजनादौ फलमिव रणादौ मे त्वमापतः ।। ३७५ ।। १ जितेन-जयेन काशते-शोभते इति जीतकाशी ।२ निशाचराः । ३ हनूमान् ।
| जानकी
हनुमतोवातालापः, लक्षयामपि हनुमत्पराक्रमः ।
॥ १७४ ।।