________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७३॥
| सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
आख्यच्च हनुमानस्मि पवनाअनयोः सुतः । विद्यया व्योमयानेन लछित्तो जलधिर्मया ।। ।।३४६ ।। समस्तवानराधीशं सुग्रीवं विद्विषद्वधात् । पत्तीकृत्याऽधिकिष्किन्धमस्ति रामः सलक्ष्मणः ।।३४७ ॥ रामोऽस्ति त्वद्वियोगेन तप्यमानो दिवानिशम् । गिरिर्दवानलेनेव तापयन्नपरानपि ।। ३४८ ।। गवेव वत्सो रहितस्त्वया स्वामिनि ! लक्ष्मणः । न जातु लभते सौख्यं शून्याः पश्यन्दिशोऽनिशम् ।। ३४९ ।। क्षणं सशोकौ सक्रोधौ क्षणं ते पतिदेवरौ । सुग्रीवेणाऽऽश्वास्यमानावपि न प्राप्नुतः सुखम् ॥३५०॥ भामण्डलो विराधश्च महेन्द्राद्याश्च खेचराः । पत्तीभूयोपासते तौ शक्रेशानाविवाऽमराः ॥३५१ ॥ तव प्रवृत्तिमानेतुमहं सुग्रीवदर्शितः । रामेण प्रेषितो देवि ! समर्प्य स्वाङ्गुलीयकम् ॥३५२ ।। चूडामणिरभिज्ञानं त्वत्त आनायितो मया । तद्दर्शनेन मामत्राऽऽयातं प्रत्येष्यति प्रभुः ।।३५३ ॥ हनूमदुपरोधेन रामोदन्तमुदा च सा । एकविंशत्यहोरात्रप्रान्ते व्यधित भोजनम् ।।३५४ ।। प्रोवाचैवमभिज्ञानं चूडामणिमिमं मम । गृहीत्वा वत्स ! गच्छाऽऽशु तिष्ठतः स्यादुपद्रवः ।। ३५५ ॥ अत्र त्वामागतं ज्ञात्वा क्रूरकर्मेष राक्षसः । हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥३५६ ।। स्मित्वा सप्रश्रयं सोऽपि जगादेति कृताञ्जलिः । त्वं मातर्मयि वात्सल्यादेवं वदसि कातरा ।।३५७ ॥ रामलक्ष्मणयोः पत्तिस्त्रिजगज्जैत्रयोरहम् । तपस्वी रावणः कोऽयं ससैन्योऽपि ममाऽग्रतः ॥३५८ ॥ त्वामपि स्कन्धमारोप्य स्वामिनि ! स्वामिनोऽन्तिके । नयामि परिभूयैनं ससैन्यमपि रावणम् ॥३५९ ॥ स्मित्वा सीताऽप्युवाचैवं न हि रुपयसि स्वकम् । रामभद्रं प्रभुं भद्र ! वदन्नेवं ससौष्ठवम् ।।३६० ॥
हनुमतः सीतायाः मिलनम् ।
॥१७३ ॥
१ तव तिष्ठतः सतः।