________________
त्रिषष्टिशलाकापुरुषचरिते ||१७२॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
द्विधाऽपि हि वराकोऽयं पतिष्यत्येव रावणः । रघूद्वहप्रतापेन स्वपापेन च भूयसा ॥३३१ ।। ततो विद्यातिरोभूतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनुमान् पातयामास तद् दृष्ट्वा मुमुदे च सा ॥३३२ ।। तदैव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषण्णाऽऽसीत् सानन्दा त्वद्य जानकी ॥३३३ ॥ मन्ये विस्मृतरामेयं रिरंसुर्मयि सम्प्रति । तद्गत्वा बोध्यतामेवमूचे मन्दोदरी स तु ।। ३३४ ।। ततश्च पत्युर्दीत्येन पुनर्मन्दोदरी ययौ । प्रलोभनकृते सीतां विनीता सेत्यवोचत ।। ३३५ ।। अद्वैतैश्वर्यसौन्दर्यवर्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्यसम्पदा ॥३३६ ।। यद्यप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधाय्युचितो योगस्तथाऽपि ह्यस्तु सम्प्रति ॥३३७ ॥ उपेत्य भजनीयं तं भजन्तं भज जानकि! । अहमन्याश्च तत्पल्यस्त्वदाज्ञां सुभ्र ! बिभ्रतु ।। ३३८ ॥ ॥ सीताऽप्यवोचदाः पापे ! पतिदौत्यविधायिनि । त्वद्भर्तुरिव वीक्षेत मुखं दुर्मुखि! कस्तव ? ||३३९ ।। रामस्य पार्वे मां विद्धि सौमित्रिमिह चाऽऽगतम् ।खरादीनिव हन्तुं द्राग्वं तव सबान्धवम् ।।३४०॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे! वच्मि नाऽतः परं त्वया । सीतया तर्जितैवं सा सकोपा प्रययौ ततः ॥३४१ ।। अथाऽऽविर्भूय हनुमान् सीतां नत्वा कृताञ्जलिः । इत्यूचे देवि ! जयति दिष्ट्या रामः सलक्ष्मणः ।। ३४२ ॥ त्वत्प्रवृत्तिकृते रामेणाऽऽदिष्टोऽहमिहाऽऽगमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे ॥३४३ ।।। बाष्पायितेक्षणा सीताऽपृच्छत्वमसि को ननु ? । दुर्लयमर्णवं चैतं कथं लचितवानसि ? || ३४४ ।। कच्चियाणिति मे प्राणनाथः सौमित्रिणा सह ?|क्व वा स्थाने त्वया दृष्टः ?कालं नयति वा कथम् ? ॥३४५ ॥ १ विस्मृतो रामो यया सा । २ पतिम् । ३ त्वया सह । ४ समुद्रम् ।
हनुमतः सीतायाः
|मिलनम् ।
॥ १७२ ।।