________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७१॥
| सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
बिभीषणस्य सदनं द्विषद्भटबिभीषणः । जगाम स्थामधामाऽथ पवनञ्जयनन्दनः ।। ३१८ ॥ बिभीषणेन सत्कृत्य पृष्टश्चाऽऽगमकारणम् । अवोचदञ्जनासूनुः सारगम्भीरगीरदः ।। ३१९ ।। यद् भ्राता रावणस्याऽसि शुभोदक विचिन्त्य तत् । रामपत्नी हृतां सीतां सती मोचय रावणात् ।। ३२० ॥ दुःखकृदिहलोकेऽपि परलोके न केवलम् । काकुत्स्थपत्नीहरणं त्वद्भातुर्बलिनोऽपि हि ।। ३२१ ॥ बिभीषणोऽप्यभाषिष्ट साधूक्तं हनुमंस्त्वया । सीतां मोचयितुं पूर्वमप्युक्तः स्वाग्रजो मया ।। ३२२ ।। भूयोऽपि हि सनिर्बन्धं प्रार्थयिष्ये स्वबान्धवम् । सीतां यदि पुनर्मुश्चत्येष सम्प्रति मद्गिरा ॥ ३२३ ।। एवं बिभीषणेनोक्ते समुत्पत्याऽञ्जनासुतः । जगाम देवरमणोद्याने वैदेह्यधिष्ठते ।। ३२४ ।। तत्राऽशोकतरोर्मूले कपोललुलितालकाम् । सन्तताश्रुपयोधारापल्वलीकृतभूतलाम् ।। ३२५ ॥ प्रम्लानवदनाम्भोजां हिमा" पद्मिनीमिव । अत्यन्तक्षामवपुष प्रथमेन्दुकलामिव ।। ३२६ ।। उष्णनिश्वाससन्तापविधुराधरपल्लवाम् । ध्यायन्ती राम रामेति निःस्पन्दां योगिनीमिव ।। ३२७ ।। मलिनीभूतवसनां निरपेक्षां वपुष्यपि । ददर्श देवी वैदेहीं पवनञ्जयनन्दनः ॥३२८ ।।
॥चतुर्भिः कलापकम् ॥ एवं च दध्यौ हनुमानहो ! सीता महासती । अस्या दर्शनमात्रेण पवित्रीभूयते जनैः ।। ३२९ ।। अस्याश्च विरहे रामः स्थाने स खलु खिद्यते । रूपवच्छीलवच्चेदृक् कलत्रं यस्य पावनम् ॥ ३३० ।। १ शत्रुभटभयङ्करः । २ शुभपरिणामम् । ३ निश्चलाम् । ४ स्थान इति युक्तार्थेऽव्ययम् ।
हनुमतः सीतायाः मिलनम् ।
।। १७१ ।।