________________
त्रिषष्टिशलाकापुरुषचरिते ।।१७०॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
शेफाल्याः कुसुमानीन्दुः करपातैरपातयत् । प्रियमित्रस्य पुष्पेषोः सज्जीकर्तुमिषूनिव ॥३०५ ।। प्रवर्षयन्निन्दुकान्तान् कुर्वाणः सरसीवाः । स्वानि शीतरुचिः पूर्तकीर्तनानीव निर्ममे ||३०६ ।। कुलटानामटन्तीनां पद्मिनीनामिवोच्चकैः । विततान मुखम्लानिं सा ज्योत्स्ना धौतदिङ्मुखा ॥३०७ ॥ समं च लङ्कासुन्दर्या पवनञ्जयनन्दनः । रममाणो निराशङ्कस्तामतीयाय यामिनीम् ।। ३०८ ॥ अथोदियाय किरणैः स्वर्णसूत्रसहोदरैः । मार्तण्डो मण्डयन्नाशां प्रियां प्राचीनबर्हिषः ।। ३०९ ।। अव्याहतं निष्पतन्त्यो रुचयश्चण्डरोचिषः । कुमुद्वतीषु स्मेरासु ययुः प्रस्वापनास्त्रताम् ।।३१० ।। त्यक्तानि मौलिमाल्यानि प्रबुद्धाभिः पुरन्ध्रिभिः । केशपाशवियोगेनाऽलिनादैररुदन्निव ।। ३११ ॥ रात्रिजागरणायासकषायितविलोचनाः । निवर्तन्ते स्म गणिकाः कामुकानां निकेतनात् ।। ३१२ ।। स्मेरपङ्कजकोशेभ्यो निर्ययुभृङ्गराजयः । खैण्डिता मुखपद्मभ्य इव निःश्वासवल्लयः ।। ३१३ ।। उदितादित्यतेजोभिर्खण्टितद्युतिवैभवः । अभवद्रजनीजानिलूतातन्तुपुटोपमः ।। ३१४ ।। यद् ब्रह्माण्डेऽपि मातं न तत्तमश्चण्डरोचिषा । मेघश्चण्डानिलेनेव निधूय क्वाऽप्यनीयत ॥३१५ ॥ रात्रेरिवाऽनुबद्धाया निद्राया अपसर्पणात् । स्वस्वकर्माणि निर्मातुं प्रावर्तत पुरीजनः ।। ३१६ ।। तदा च हनुमाल्लँङ्कासुन्दरी सुन्दरोक्तिभिः । आपृच्छ्य प्राविशलङ्कानगरी गुरुविक्रमः ।। ३१७ ॥ १ कामस्य ।२ पीतत्वात् सुवर्णरज्जुसदृशैः । ३ इन्द्रस्य प्रियां दिशं पूर्वाम् । ४ कुटुम्बिनीभिः स्त्रीभिः । ५ या स्वपतिमन्यया सह रममाणं दृष्ट्वेयां करोति सा खण्डितेत्युच्यते । ६ लूता ऊर्णनाभः तस्य मुखान्निर्गतानां तन्तूनां पुटः-पात्रं तत्सदृशः ।
हनुमतो
लकनगाँ प्रवेशः।
॥ १७०॥