________________
त्रिषष्टिशलाका
पुरुषचरिते ।।१६९ ।।
किमञ्जनाद्रेश्चूर्णेन पूर्णमेतदथाऽञ्जनैः । रोदसीभाण्डमभितस्तमःपूर्णमलक्ष्यत ॥ २९२ ॥
न हि स्थलं न हि जलं न दिशो न नभो न भूः । तदानीं किं बहूक्तेन ? स्वहस्तोऽपि न लक्ष्यते ॥ २९३ ॥ तारा व्योमन्यसिंश्यामे तमोलिप्ते विशेषतः । चिरं व्यडम्बयन् द्यूतकरित्रस्थवराटिकाः ।। २९४ ॥ व्यक्तोडु कलयामास कज्जलश्यामलं नभः । उत्पुण्डरीककालिन्दीहदसब्रह्मचारिताम् ।। २९५ ।। एकाकारकरे विष्वक् तमःपूरे प्रसर्पति । विश्वं विश्वमनालोकमभूत्पातालसन्निभम् ।। २९६ ।। स्फीतेऽन्धकारे निःशङ्काः कामिसङ्घट्टनोत्सुकाः । स्वैरं जजृम्भिरे दूत्यो ह्रदे शफरिका इव ।। २९७ ॥ आजानूत्क्षिप्तमञ्जीरास्तमालश्यामलांशुकाः । मृगनाभिविलिप्ताङ्ग्योऽभिसखुरभिसारिकाः ।। २९८ ॥ अथोदयाद्रिप्रासादे सुवर्णकलशोपमः । कराङ्कुरमहाकन्द उदियाय निशाकरः ।। २९९ ।। नैसर्गिकेण वैरेण लक्ष्मव्याजात्सहेन्दुना । नियुद्धमिव तन्वानमन्धकारमलक्ष्यत ।। ३०० ॥ विपुले गोकुल इव क्रीडन्ति स्म नभस्तले । स्वैरं गोष्विव तारासु गवेन्द्र इव चन्द्रमाः ।। ३०१ ।। व्यक्तमन्तःस्फुरल्लक्ष्मा मृगलक्ष्मा व्यराजत । मृगेनाभिद्रवाधार रौप्यभाजनसन्निभः ।। ३०२ ।। स्खल्यमाना विरहिभिरन्तरा दत्तपाणिभिः । प्रसस्रुः शीतंगुकराः शरा इव मनोभुवः ॥ ३०३ ॥ चिरभुक्तामपि प्रोज्झ्य पद्मिनीं प्राप्तदुर्दशाम् । भृङ्गाः कुमुद्वतीं भेजुर्धिगहो ! नीचसौहृदम् ।। ३०४ ।।
1
१ खड्गवत् श्यामे । २ द्यूतपट्टस्थितकपर्दिकाः । ३ स्पष्टनक्षत्रम् । ४ अधिकानि पुण्डरीकाणि यस्मिंस्तस्य कालिन्दीइदस्य समानताम् । ५ समग्रम् । ६ जानुपर्यन्तं धारितानि मञ्जीराणि - नूपुराणि याभिस्ताः । ७ कलङ्कमिषात् । ८ बाहुयुद्धम् । ९ मृगमदस्य श्यामत्वात्कलङ्कसादृश्यं रौप्यपात्रस्य च श्वैत्याच्चन्द्रसादृश्यम् । १० शीता गावः किरणा यस्य तस्य चन्द्रस्य कराः किरणाः ।
सप्तमं पर्व
षष्ठः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
हनुमतो लङ्कांनगर्यां प्रवेशः ।
।। १६९ ।।