________________
* H
सप्तमं पर्व षष्ठः
त्रिषष्टिशलाकापुरुषचरिते ॥१६८॥
सर्गः
रामलक्ष्मणरावण
चरितम् ।
आख्यातं साधुना पूर्व यस्ते जनकघातकः । भावी भर्तेति तन्नाथ ! मामुद्वह वशंवदाम् ।। २७८ ॥ सकलेऽपि जगत्यस्मिन् कोऽन्यस्तव समो भटः । ततः स्थास्यामि नारीषु त्वया पत्याऽतिगर्विता ॥२७९ ॥ एवं विनीतां तां कन्यां मुदितो हनुमानपि । गान्धर्वेण विवाहेन सानुरागमुपायत ।। २८० ॥ स्नातुकाम इव व्योमाटवीपर्यटनश्रमात् । तदा त्विषामधिपतिर्ममज्जाऽपरवारिधौ ।। २८१ ॥ प्रतीचीमुपभुज्याऽऽशां गच्छता भानुमालिना । सन्ध्याघ्रच्छद्मना तस्या वासांसीवापनिन्यिरे ।। २८२ ।। चकाशे दिशि वारुण्यामरुणाभ्रपरम्परा । अस्तकाले रवि त्यक्त्वा तेजः पृथगिव स्थितम् ।। २८३ ॥ नवरागो नवरागां सिषेवे वारुणीमसौ । मां हित्वेत्यपमानेन म्लानास्या प्राच्यभूदु ध्रुवम् ॥ २८४ ।। क्रीडास्थानभुवा तासां परित्यागभुवा रुजा । खगैः कोलाहलमिषादाक्रन्दस्तत्र निर्ममे ।। २८५ ॥ म्लानिमासादयामास चक्रवाकी वराकिका । दूरीभूतप्रियतमा ललनेव रजस्वला ।। २८६ ॥ पद्मिनी कलयामास मुखसङ्कोचमुच्चकैः । पतिव्रताव्रतेवाऽस्तङ्गते पत्यावहेर्पतौ ।। २८७ ॥ तर्णकोत्कण्ठितास्तूर्णं गावो व्याजुघुटुर्वनात् । वायव्यस्नानसम्प्राप्तिमुदितैर्वन्दिता द्विजैः ।।२८८ ॥ अस्तकाले त्विषामीशो निजं तेजो हविर्भुजे । राजेव युवराजाय राज्यसम्पदमार्पयत् ।।२८९ ।। नागरीभिः प्रतिपदमदीप्यन्त प्रदीपकाः । दिवोऽवतीर्णनक्षत्रश्रेणिश्रीपरिमोषिणः ।। २९० ॥ अस्तमीयुषि चण्डांशौ शशिन्यनुदिते सति । तमो जृम्भितुमारेभे छलच्छेकाः खलाः खलु ।। २९१ ॥ १ परिणीतवान् । २ आकाशाटव्यां यज्रमणं तस्य श्रमात् । ३ प्रतीच्या वस्त्राणि सूर्योऽपजड़े । ४ प्रतीच्याम् । ५ पतिव्रताया व्रतं यस्याः सा इव । ६ सूर्ये । ७ वत्सेषूत्कण्ठिताः । ८ प्रतिनिववृतिरे ।
हनुमतो
गमनम्,
ARASARSA5%
तिसृभिः कन्याभिः सह लग्नः ।
॥१६८॥