________________
सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१६७॥
सर्गः रामलक्ष्मणरावणचरितम् ।
तद्रािऽन्वेषयंस्तातो नोपलेभे तु तं क्वचित् । विद्यासाधनमस्माभिस्तं ज्ञातुं च प्रचक्रमे ।। २६३ ॥ विद्याभ्रंशनिमित्तं चाऽङ्गारकेण कृतो दवः । त्वया च शमितः साधु भो ! निष्कारणबन्धुना ॥२६४ ॥ मासैः सिध्यति या षड्भिस्त्वत्साहाय्यात् क्षणादपि । सा मनोगामिनी नाम विद्या नः सिद्धिमाययौ ।।२६५ ।। आमूलात्साहसगतेर्वधं रामेण निर्मितम् । शशंस हनुमांस्तासां लङ्कायां चाऽऽत्मनो गतिम् ।। २६६ ।। मुदितास्ताः पितुर्गत्वा शशंसुस्तदशेषतः । सोऽपि ताभिः समं सद्यः ससैन्योऽगाद्रघूद्वहम् ।। २६७ ।। उत्पपाताऽथ हनुमानुपलङ्क गतश्च सन् । ददर्शाऽशालिका विद्यां घोरां कालनिशामिव ।। २६८ ॥ अरे कपे! क्व याताऽसि ? यातोऽसि मम भोज्यताम् । इति ब्रुवाणा साक्षेपं व्याददाति स्म सा मुखम् ।। २६९ ॥ हनूमांश्च गदापाणिः प्रविवेश तदाननम् । अभ्रमध्यमिवाऽऽदित्यस्ता विदार्य च निर्ययौ ॥ २७० ।। तया कृतं च प्राकारं लङ्कापुर्या मरुत्सुतः । विद्यासामर्थ्यतोऽभाङ्क्षीन्मङ्घ कर्परलीलया ।। २७१ ।। तद्वप्रारक्षमप्युच्चैः क्रुद्धं वज्रमुखाभिधम् । सोऽवधीत्सहयुध्वानं युद्धाध्वन्यधुरन्धरः ॥२७२ ।। हते वज्रमुखे लङ्कासुन्दरी तस्य कन्यका । विद्याबलवती कोपायुद्धायाऽऽह्वास्त मारुतिम् ।। २७३ ।। व्योमनीव तडिल्लेखा साऽचारीच्चतुरं रणे । प्रहरन्ती मुहुः सानुमतीव हि हनूमति ॥२७४ ।। तदस्त्राणि निजैरस्त्रैश्छिन्दानः पावनञ्जयिः । तां निरस्त्रीचकाराऽऽशु निष्पत्रामिव वीरुधम् ।। २७५ ॥ क एष इति साऽऽश्चर्यादाञ्जनेयमुदीक्षितुम् । सम्प्रवृत्ता च कामेन ताडिता च शिलीमुखैः ।। २७६ ॥ सा हनूमन्तमित्यूचे मया पितृवधोत्थया । अविचार्य क्रुधा वीर ! योधितोऽसि मुधैव हि ।। २७७ ॥ १ गमनम् । २ गच्छन्नसि । ३ कर्परी मृन्मयं जीर्णपात्रम् । ४ लताम् । ५ बाणैः ।
हनुमतो
लवं गमनम् ।
॥१६७ ।।