________________
त्रिषष्टिशलाकापुरुषचारते ||१६६॥
सप्तमं पर्व षष्ठः |सर्गः रामलक्ष्मणरावणचरितम् ।
अग्रहीद् भृशमायोध्य महेन्द्रमपि मारुतिः । नत्वा चैवं समाचख्यौ नप्ता तेऽस्म्यञ्जनासुतः ।। २४८ ॥ रामाज्ञया च वैदेहीशुद्ध्यै लयं व्रजन्नहम् । अत्राऽऽयातः समस्मार्ष मातृनिर्वासनं चिरात् ।। २४९ ।। जातामर्षेण तत्तात ! योधितोऽसि सहस्व मे । स्वामिकार्याय यास्यामि याहि नः स्वामिसन्निधौ ॥२५० ।। महेन्द्रोऽपि समालिङ्ग्य तमित्यूचे महाभुजम् । प्राक्च्छूतोऽसि जनश्रुत्या दिष्ट्या दृष्येऽद्य विक्रमी ॥२५१ ॥ गच्छ स्वस्वामिकार्याय पन्थानः सन्तु ते शिवाः । इत्युदित्वा महेन्द्रोऽगात् ससैन्यो राघवान्तिके ॥ २५२ ।। व्योम्नाऽथ हनुमान् गच्छन् द्वीपे दधिमुखाभिधे । कायोत्सर्गे तस्थिवांसौ प्रेक्षाञ्चक्रे महामुनी ॥२५३ ।। तयोरनतिदूरे चाऽपश्यत्तिस्रः कुमारिकाः । ध्यानस्था निरवद्याङ्गीर्विद्यासाधनतत्पराः ।। २५४ ॥ दवानलस्तदा द्वीपे प्रजज्वालाऽखिलेऽपि हि । तौ साधू ताः कुमार्यश्च निपेतुर्दवसङ्कटे ।। २५५ ।। तद्वात्सल्येन हनुमान् विद्ययाऽऽदाय सागरात् । तं दवाग्निं मेघ इव शमयामास वारिभिः ॥२५६ ।। तदैव सिद्धविद्यास्ताः कन्या ध्यानस्थितौ तु तौ । मुनी प्रदक्षिणीकृत्य हनूमन्तं बभाषिरे ।।२५७ ॥ साधूपसर्ग साधूनामरक्षः परमाईत! । त्वत्साहाय्येन विद्या नः सिद्धाः कालं विनाऽपि हि ।। २५८ ॥ का यूयमिति तेनोक्ताः कन्यास्ता एवमब्रुवन् । अस्मिन् गन्धर्वराजोऽस्ति राजा दधिमुखे पुरे ।। २५९ ।। स्मस्तस्य कन्याः कुसुममालाकुक्षिभवा वयम् । तातं ययाचिरेऽस्मांस्तु बहवः खेचरेश्वराः ॥२६०॥ खेचरोऽङ्गारको नामोन्मत्तश्चाऽस्मत्कृतेऽभवत् । ततस्तस्मै चाऽन्यस्मै ददौ तातस्त्वरोचकी ।। २६१ ॥ मत्पुत्रीणां पतिः कः स्यादित्यपृच्छत्पिता मुनिम् । यः साहसगतेर्हन्ता स स्यादिति च सोऽवदत् ।। २६२ ।।
|लङ्क प्रति | हनुमद्
गमनम्,
| महेन्द्रेण
सह तस्य | युद्धम् ।
॥१६६ ।।
१ दौहित्रः ।२ अरुचिवान् ।