________________
त्रिषष्टिशलाकापुरुषचरिते ।।१६५॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावण
चरितम् ।
इदं मद्वाचिकं शंसेर्देवि ! यल्लक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति ।। २३३ ॥ मा त्याक्षीमद्वियोगेन जीवितं जीवितेश्वरि! । लक्ष्मणेन हतं द्रक्ष्यस्यचिरादेव रावणम् ।। २३४ ।। हनुमानप्युवाचैवं यावदाज्ञां विधाय ते । लङ्कायाः पुनरायामि तिष्ठेस्तावदिह प्रभो ! ॥२३५ ॥ इत्युक्त्वा राघवं नत्वा मारुतिः सपरिच्छदः । लङ्कापुरी प्रत्यचालीद्विमानेनाऽतिरंहसा ॥२३६ ॥ स गच्छन्नभसाऽपश्यन्महेन्द्रगिरिसानुनि । मातामहमहेन्द्रस्य महेन्द्रपुरपत्तनम् ।। २३७ ।। एवं च दध्यौ हनुमान्महेन्द्रस्य पुरं ह्यदः । येन मेऽनपराधाऽपि माता निर्वासिता तदा ।। २३८ ॥ इति संस्मृत्य सङ्घद्धो रणतूर्यमवादयत् । ब्रह्माण्डं स्फोटयदिव दिङ्मुखप्रतिशब्दितैः ।। २३९ ।। दृष्ट्वा परबलं राजा महेन्द्रोऽपीन्द्रविक्रमः । समं सैन्यैर्निरगमत् सपुत्रो रणकर्मणे ।। २४० ।। महेन्द्रहनुमच्चम्वोरजायत महारणः । व्योमन्युत्पातजीमूत इवाऽसृग्वृष्टिभीषणः ॥२४१ ॥ प्राभअनिर्बभाऽथ प्रभञ्जन इव द्रुमान् । परसैन्यान् क्षणेनाऽपि भ्रमन् वेगेन सङ्गरे ।।२४२ ॥ प्रसन्नकीर्तिर्मा हेन्द्रिरयुध्यत हनूमता । निघ्नन्नशङ्कं जामेयसम्बन्धमविदन्नथ ।। २४३ ॥ उभावपि महाबाहू उभावप्यत्यमर्षणौ । अन्योऽन्यं दृढयुद्धेन जनयामासतुः श्रमम् ।। २४४ ।। अथैव चिन्तयामास युध्यमानोऽपि पावनिः । आरम्भि धिग्मया युद्धं स्वामिकार्यविलम्बकृत् ।। २४५ ।। ये जीयन्ते क्षणात्तेऽन्ये मम मातृकुलं ह्यदः । तथाऽप्यारब्धनिर्वाहकृते जेतव्यमेव हि ।। २४६ ।। ध्यात्वेति हनुमान् क्रुद्धः प्रहारैर्मोहयन् क्षणात् । प्रसन्नकीर्ति जग्राह भग्नास्त्ररथसारथिम् ।। २४७ ।।
लङ्कत प्रति हनुमद्गमनम् ।
॥१६५ ।।
१ मम सन्देशम् । २ दिङ्मुखानां प्रतिध्वानैः । ३ जीमूतो मेघः । ४ महेन्द्रपुत्रः ।