________________
त्रिषष्टिशलाकापुरुषचरिते ।।१६४॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
सन्देशहारकेणाऽपि यदि सिध्येत्प्रयोजनम् । पर्याप्त स्वयमुद्योगकर्मणा भूभुजां तदा ।। २१८ ।। समर्थः प्रेष्यतां तत्र कोऽपि दूतो महाभुजः । सा दुःप्रवेशनिष्काशा लङ्का हि श्रयते क्षितौ ।। २१९ ।। गत्वा दूतः स लङ्कायां भणिष्यति बिभीषणम् । सीतार्पणकृते रक्षःकुले स खलु नीतिवान् ।। २२० । सीतां मोचयितुं सोऽपि रावणं बोधयिष्यति । रावगेन त्ववज्ञातस्त्वामेष्यति तदैव हि ॥ २२१ ।। एवं वचसि तेषां तु रामेणाऽनुमते सति । श्रीभूतिं प्रेष्य सुग्रीवो हनूमन्तमथाऽऽह्वत ।। २२२ ।। अथ रामं सभासीनं सुग्रीवादिसमावृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ।। २२३ ।। ततो रामाय सुग्रीवः शशंसैवमयं हि नः । विधुरे परमो बन्धुर्विनयी पावनअयिः ।। २२४ ।। नाऽस्य तुल्यो द्वितीयोऽस्ति सर्वविद्याधरेष्वपि । सीताप्रवृत्तिलाभार्थं स्वामिन्नेनं तदादिश ।। २२५ ।। हनुमानप्युवाचैवं कपयः सन्त्यनेकशः । मत्प्रायाः स्नेहतस्त्वेतद्वक्ति सुग्रीवभूपतिः ॥ २२६ ॥ गवो गवाक्षो गवयः शरभो गन्धमादनः । नीलो द्विविदमैन्दौ च जाम्बवानङ्गदो नलः ।। २२७ ॥ अन्येऽपि बहवः स्वामिन् सन्तीह कपिपुङ्गवाः । तेषां सङ्ख्यापूरणोऽहमपि त्वत्कार्यसिद्धये ।। २२८ ॥ लङ्का सराक्षसद्वीपामुत्पाट्येह किमानये ? । बद्ध्वा सबान्धवमथाऽऽनयामि दशकन्धरम् ? ।। २२९ ।। सकुटुम्ब दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकजामेवाऽऽनयामि निरुपद्रवाम् ? || २३०॥ रामोऽपि निजगादैवं सर्वं सम्भवति त्वयि । तद्गच्छ पुर्या लक्षायां सीतां तत्र गवेषयेः ।।२३१ ॥ मैदूर्मिकामिमां देव्या मदभिज्ञानमर्पयेः । तस्याश्चूडामणिं चाऽभिज्ञानमत्र समानयेः ।। २३२ ।। १ पवनञ्जयस्यापत्यं पुमान् पावनञ्जयिः हनुमान् । २ मत्सदृशाः । ३ मम अङ्गुलीयकम् ।
सीतानयनाथ सर्वमन्त्रिभिः हनुमन्प्रेषणम् ।
॥ १६४ ॥