________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६३॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं रत्नजटिनमाश्लिषत् ।। २०४ ।। भूयो भूयोऽपि पप्रच्छ सीतोदन्तं रघूद्वहः । भूयो भूयोऽपि सोऽप्याख्यत्तन्मनःप्रीतिहेतवे ।। २०५ ।। अपृच्छद्रामभद्रस्तान् सुग्रीवादीन्महाभटान् । इतः कियति दूरे सा लङ्कापूस्तस्य रक्षसः ।। २०६ ॥ तेऽप्यूचुः किं तया पुर्याऽऽसन्नयाऽथ दविष्ठया । रावणस्य जगज्जिष्णोर्यत्सर्वे तृणवद्वयम् ॥ २०७॥ रामोऽप्यूचे कृतं तस्य जय्याजय्यविचिन्तया । देर्शनप्रतिभूवन्नस्तं दर्शयत केवलम् ॥२०८ ॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाऽचिरात् । सौमित्रिमुक्तनाराचपीयमानगलासृजः ।। २०९ ।। बभाषे लक्ष्मणोऽप्येवं क एष ननु रावणः ? । सारमेय इवाऽसारच्छलेनैवं चकार यः ।।२१० ।। क्षत्राचारेण तस्याऽहं छेत्स्यामि च्छलिनः शिरः । सङ्ग्रामनाटकं यूयं सभ्यीभूयैव पश्यत ।।२११ ॥ जाम्बवान् व्याजहाराऽथ सर्व वो युज्यते परम् । यो हि कोटिशिलोत्पाटी स हनिष्यति रावणम् ॥२१२ ॥ साधुनाऽनन्तवीर्येणाऽऽख्यातं ज्ञानवता ह्यदः । अस्मत्प्रत्ययहेतोस्तत्समुत्पाटय तां शिलाम् ।।२१३ ॥ एवमस्त्वित्युक्तवन्तं ते नयन्ति स्म लक्ष्मणम् । सपदि व्योमयानेन यत्र कोटिशिलाऽस्ति सा ॥२१४ ॥ उच्चिक्षेप शिला दोष्णा लक्ष्मणस्तां लतामिव । साधु साध्वित्युच्यमानस्त्रिदशैः पुष्पवर्षिभिः ॥२१५ ॥ सातप्रत्ययास्तेऽपि व्योमयानेन पूर्ववत् । किष्किन्धायां समानिन्युर्लक्ष्मणं रामसन्निधौ ॥२१६ ।।
कपिवृद्धास्ततः प्रोचुर्युष्मत्तो रावणक्षयः । आदौ प्रेष्यो द्विषां दूत इति नीतिमतां स्थितिः ॥२१७ ।। । १ समीपस्थया । २ दर्शने प्रतिभूवत् साक्षिवत् । ३ नोऽस्माकम् । ४ लक्ष्मणेन मुक्तेन नाराचेन पीयमानं कण्ठशोणितं यस्य सः ।
| सीतानयनाथ | सर्वमन्त्रिभिः हनुमन्प्रेषणम् ।
SASHASHASANS
॥१६३ ।।