________________
त्रिषष्टिशलाकापुरुषचरिते ||१६२॥
सप्तमं पर्व षष्ठः | सर्गः रामलक्ष्मणरावणचरितम् ।
सीताप्रवृत्तिमानेतुमुत्तिष्ठस्वाऽधुनाऽपि हि । मा साहसगतेर्मार्ग गमः सङ्कचितो न सः ।। १८९ ।। पतित्वा पादयोस्तस्य सुग्रीवोऽथाऽब्रवीदिति । प्रसीदैकं प्रमादं मे सहस्वाऽसि प्रभुर्यतः ॥ १९० ॥ एवमाराध्य सौमित्रिमग्रे कृत्वा कपीश्वरः । द्रुतं ययौ रामभद्रं नमश्चक्रे च भक्तितः ॥१९१ ॥ इत्यादिशच्च स्वान् सैन्यान् भो भोः ! सर्वेऽपि दोभृतः । सर्वत्राऽस्खलिता यूयं गवेषयत मैथिलीम् ।।१९२ ॥ इत्युक्तास्तेन ते सैन्या द्वीपेष्वद्रिषु सिन्धुषु । भूमिरन्ध्रेष्वथाऽन्यत्र त्वरितत्वरितं ययुः ॥१९३ ।। सीताहरणमाकर्ण्य तदा भामण्डलोऽपि हि । आगमद्राममस्थाच्च से इवाऽत्यन्तदुःखितः ॥ १९४ ॥ विराधोऽपि समं सैन्यैः स्वामिव्यसनपीडितः । एत्य शुश्रूषमाणोऽस्थात्तत्रैव चिरपत्तिवत् ।। १९५ ॥ सुग्रीवोऽपि स्वयं गच्छन् कम्बुद्वीपमुपाययौ । तं च रत्नजटी दृष्ट्वा दूरादेवमचिन्तयत् ॥१९६ ।। संस्मृत्य किं ममाऽऽगस्तत्प्रैष्ययं दशमौलिना । मद्वधाय महाबाहुः सुग्रीवो वानरेश्वरः ? ।। १९७ ।। हृता विद्या दशास्येन पुरा तावन्महौजसा । इदानीमेष मे प्राणान् हरिष्यति हरीश्वरः ।। १९८ ।। इति चिन्तापरंतं द्राक्सुग्रीवोऽगादुवाच च । नाऽभ्युदस्थाः कथं मांत्वं ?व्योमयानेऽलसोऽसि किम् ?॥१९९ ॥ सोऽप्यभ्यधाद्दशास्येन विद्या मे सर्वतो हृता । जानकी हरतस्तस्य युद्धे ह्यहमुपस्थितः ।। २०० ।। ततश्च रामपादान्ते स नीतः कपिकेतुना । तेन विज्ञापितः सीतोदन्तमेवं व्यजिज्ञपत् ।। २०१ ॥ देव ! देवी नृशंसेन सती सीता दुरात्मना । हृता लापुरीशेन विद्या च मम कुप्यतः ॥२०२ ॥ हा राम ! वत्स सौमित्रे! भ्रातर्भामण्डलेति च । देव्यां रुदत्यां सीतायामकुप्यं दशमौलये ।। २०३ ।। १स साहसगतेर्मार्गो मृत्युरूपो न सङ्कुचितः तवाऽपि मरणं भविष्यतीति ध्वनिः ।२ राम इव ।
बिभीषणस्य मन्त्रणा, सीताशोधनार्थ | सुग्रीवादि| गमनम् ।
।।१६२ ।।