________________
त्रिषष्टिशलाकापुरुषचरिते ।।१६१॥
| सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
कामं कामातुरः स्वामी कामस्त्वेको हि दुर्जयः । किं पुनः कृतसाहाय्यः परनारीरिरंसया ? || १७५ ।। तदतः परमत्यन्तं महति व्यसनार्णवे । पतिष्यति पतिर्लक्षापुर्या दोष्मानपि द्रुतम् ।। १७६ ॥ अथ ते मन्त्रिणः प्रोचुर्वयं नाम्नैव मन्त्रिणः । त्वमेव मन्त्री मन्त्रात्तु यस्येदृग्दूरदर्शिता ।। १७७ ॥ किं करोति परं मन्त्रः प्रभौ कामवशंवदे ? | मिथ्यादृष्टौ जने जैनधर्मस्येवोपदेशनम् ।। १७८ ॥ सुग्रीवहनुमन्मुख्या मिलिता राघवस्य ते । महात्मनां न्यायभाजां कः पक्षं नाऽवलम्बते ? ।। १७९ ।। सीतानिमित्तो ह्येक्ष्वाकाज्ज्ञान्युक्तो नः कुलक्षयः । तथाऽपि पुरुषाधीनं कर्तव्यं समयोचितम् ।।१८० ।। ततो बिभीषणश्चक्रे वप्रे यन्त्रादिरोपणम् । अनागतं हि पश्यन्ति मन्त्रिणो मन्त्रचक्षुषा ।। १८१॥ इतश्च कालं कमपि कथमप्यत्यवाहयत् । सौमित्रिणाऽऽश्वास्यमानो रामो विरहपीडितः ।। १८२ ।। अनुशिष्याऽथ रामेण प्रेषितो लक्ष्मणः स्वयम् । प्रतस्थे प्रति सुग्रीवं तूणचापकृपाणभृत् ।। १८३ ॥ दलयन क्ष्मां पदन्यासैः कम्पयंस्तं च पर्वतम् । वेगान्दोलितदोःस्पर्शान्मार्गवृक्षांश्च पातयन् ॥ १८४ ।। उत्कटभूकुटीभीमललाटोऽरुणलोचनः । भीताःस्थैर्मुक्तमार्गः प्राप सुग्रीववेश्म सः ।। १८५ ॥
॥युग्मम् ।। आयातं लक्ष्मणं श्रुत्वा निर्गत्याऽन्तःपुराद् द्रुतम् । उपतस्थे कपिराजः कम्पमानवपुर्भयात् ।। १८६ ॥ ऊचे च लक्ष्मणः क्रुद्धः कृतकृत्योऽसि वानर ! ।सुखं तिष्ठसि निःशङ्कः स्वान्तःपुरसमावृतः ?।। १८७ ।। स्वामी तरुतलासीनो दिवसानब्दसन्निभान् । यथाऽत्येति न तद्वेत्सि प्रतिपन्नं च विस्मृतम् ? ।। १८८ ॥ १ परनारीरिरंसया कृतं साहाय्यं यस्यैतादृशः कामो दुर्जयस्तत्र किं वक्तव्यमित्यर्थः । २ पृथ्वीम् ।
| बिभीषणस्य मन्त्रणा।
॥१६१ ।।