________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥१६० ।।
न यावदिह हन्तुं नः काकुत्स्थोऽभ्येति सानुजः । मुच्यतां तावदाश्वेव नीत्वा सीता तदन्तिके ।। १६१ ।। इत्युक्ते रावणः क्रोधारुणाक्षोऽप्यब्रवीदिति । किमिदं भाषसे भीरो ! व्यस्मार्षीर्मम पौरुषम् ? ।। १६२ । सीताऽनुनीताऽवश्यं हि मम भार्या भविष्यति । तौ चाऽऽयातौ हनिष्यामि वराकौ रामलक्ष्मणौ ॥ १६३ ॥ ऊचे बिभीषणो भ्रातः ! सत्यं तज्ज्ञानिनो वचः । यद्रामपल्याः सीतायाः कृते नः कुलसङ्क्षयः ।। १६४ ।। भक्तस्य बन्धोर्मे वाचं मन्यसे नाऽन्यथा कथम् ? । मया तो दशरथः स तावज्जीवितः कथम् ? ।। १६५ ।। न यद्यप्यन्यथाभावि भावि वस्तु महाभुज ! । तथाऽपि प्रार्थ्यसे मुञ्च सीतां नः कुलघातिनीम् ॥ १६६ ॥ अनाकर्णितकेनेव बिभीषणगिरामथ । आरोप्य पुष्पके सीतां भ्रमन्नेवमदर्शयत् ॥ १६७ ॥ अमी क्रीडाद्रयो रत्नसानवः स्वादुनिर्झराः । नन्दनोद्यानसोदर्याण्यमून्युपवनानि च ।। १६८ ।। यथाकामीनवृष्टीनि धारावेश्मान्यमूनि च । अमूश्च केलिकुलिन्यः सहंसा हंसगामिनि ! ।। १६९ ।। एतानि रतिवेश्मानि स्वर्गखण्डोपमानि च । मया सह रमस्वैषु सुभ्रु ! यत्र रतिस्तव ।। १७० ।। ध्यायन्ती रामपादाब्जे हंसीव जनकात्मजा । वसुन्धरेव धैर्येण चुक्षोभ न हि तद्गिरा ।। १७१ ।। सर्वेषु रम्यस्थानेषु भ्रान्त्वा भ्रान्त्वा दशाननः । मुमोचाऽशोकवनिकामध्ये भूयोऽपि जानकीम् ॥ १७२ ।। प्रेक्ष्योन्मत्तमिव ज्येष्ठं वाचोयुक्तेरगोचरम् । बिभीषणो मन्त्रयितुं कुलामात्यानथाऽऽह्वयत् ।। १७३ । ऊचे च भोः कुलामात्याः ! कामाद्या ह्यान्तरद्विषः । भूता इवैते तेष्वेकोऽप्युन्मथ्नाति प्रमादिनम् ॥ १७४ ॥ १ रत्नशिखराः । २ नन्दनोपवनसदृशानि । ३ यथेच्छवृष्टीनि ।
सप्तमं पर्व
षष्ठः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
सीता
बोधनार्थं
रावण
प्रयासः ।
।। १६० ।।