________________
त्रिषष्टि
शलाका
पुरुषचरिते
1194811
उल्ललन्तो दुर्ललिता यमस्येव सभासदः । विकृता रावणेनेयुरुपसीतं भयङ्कराः ।। १४७ ।।
॥ त्रिभिर्विशेषकम् ॥ ध्यायन्ती मनसा पञ्चपरमेष्ठिनमस्क्रियाम् । सीता तस्थावभीतैव न तु भेजे दशाननम् ।। १४८ ॥ बिभीषणः प्रभाते तु निशावृत्तं निशम्य तत् । आगादुपदशग्रीवं सीतां चैवमवोचत ।। १४९ ।। भद्रे ! का त्वं ? कुतः स्थानात् ? कस्य चाऽसि ? किमत्र च ? । मा भैषीः सर्वमाख्याहि परस्त्रीसोदरस्य मे ।। १५० ।। तं मध्यस्थं परिज्ञाय सीताऽप्याख्यदधोमुखी । अहं जनकपुत्र्यस्मि सीता भामण्डलस्वसा ।। १५१ ।। गृहिणी रामभद्रस्य स्नुषा दशरथस्य च । समं पत्या सानुजेन दण्डकारण्यमागमम् ।। १५२ ॥ तत्रैकदा देवरो मे क्रीडयेतस्ततो भ्रमन् । खे महासिं ददर्शेकं जग्राह च कुतूहलात् ।। १५३ ।। अभ्यर्णस्थां वंशजालीं तेन चिच्छेद सोऽसिना । अज्ञानाच्च तदन्तःस्थतत्साधकशिरोऽच्छिदत् ॥ १५४ ॥ अयुध्यमानोऽनागस्कः कोऽप्ययं हा ! हतो मया । सानुताप इव भ्रातुः समीपं स उपागमत् ।। १५५ ।। तस्याऽसिसाधकस्यैव काचिदुत्तरसाधिका । मद्देवरस्याऽनुपदं तत्र कोपादुपागमत् ।। १५६ ॥ भर्तारं मम दृष्ट्वा चाऽद्भुतरूपपुरन्दरम् । अयाचीद्रन्तुकामार्ताऽवाज्ञासीत्तां च मत्पतिः ।। १५७ ॥ साऽगच्छदागमदथ रक्षसां बलमुल्बणम् । क्ष्वेडां वैधुर्यसङ्केतीकृत्याऽगाल्लक्ष्मणो युधि ।। १५८ ।। मायाक्ष्वेडामथो कृत्वा दूरं नीत्वा च मत्पतिम् । दुराशोऽहृत मामेष स्ववधायैव राक्षसः ।। १५९ । तच्छ्रुत्वा रावणं नत्वा बभाषे च बिभीषणः । कुलस्य दूषणमिदं स्वामिन् ! कर्म त्वया कृतम् ।। १६० ।। १ उच्छलन्तः । २ दुर्विनीताः । ३ निरपराधी । ४ वैधुर्ये सङ्कटे सङ्केतभूतां कृत्वा ।
Twittali
सप्तमं पर्व षष्ठः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
सीता
बोधनार्थं
रावणप्रयासः ।
।। १५९ ।।