________________
त्रिषष्टि
शलाका
पुरुषचरिते 1194211
एषा मन्दोदरी नाम दशाननमहिष्यहम् । प्रपत्स्ये त्वयि दासीत्वं भजस्व दशकन्धरम् ।। १३२ ।। सीते ! त्वमेव धन्याऽसि यां सिंसेविषतेऽनिशम् । विश्वसेव्याङ्घ्रिकमलः पतिर्मम महाबलः ।। १३३ ॥ अद्यापि तव रामेण भूचरेण तपस्विना । पत्तिमात्रेण किं पत्या ? प्राप्यते चेद्दशाननः ।। १३४ ।। रुषा बभाषे सीतैवं क्व सिंहः ? क्व च जम्बुकः ? । क्व सुपर्णः ? क्व वा काकः ? क्व रामः ? क्व च ते पतिः ? ॥ १३५ ।। दम्पतित्वमो युक्तं तव तस्य च पाप्मनः । रिरंसुरेकोऽन्यस्त्रीषु दूतीभवति चाऽपरा ।। १३६ ॥ द्रष्टुमप्युचिता नाऽसि किमु सम्भाषितुं हले ! ? । स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम ॥ १३७ ॥ रावणोऽपि तदा तत्राऽऽजगाम निजगाद च । कुपिताऽसि कुतः सीते ! दासी मन्दोदरी तव ।। १३८ ॥ दासस्ते स्वयमप्यस्मि प्रसादं कुरु देवि ! मे । जानकि ! त्वं जनममुं प्रीणासि न दृशाऽपि किम् ? ।। १३९ ॥ सीता पराङ्मुखीभूयेत्यभाषत महासती । कृतान्तदृष्ट्या दृष्टोऽसि हरन्मां रामगेहिनीम् ।। १४० ।। घिगाशां ते हताशस्याऽप्रार्थितप्रार्थकस्य रे ! । जीविष्यसि कियद्रामे सानुजे द्विषदन्तके ।। १४१ ।। तयेत्याश्यमानोऽपि भूयो भूयो दशाननः । तथैवोवाच धिगहो ! कामावस्था बलीयसी ।। १४२ ॥ अत्राऽन्तरे विपन्मग्नां सीतां द्रष्टुमिवाऽक्षमः । निममज्ज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ॥ १४३ ॥ प्रावर्तत निशा घोरा घोरबुद्धिश्च रावणः । सीतायै क्रोधकामान्ध उपसर्गान् प्रचक्रमे ॥ १४४ ॥ घुत्कारिणो महाघूकाः फेत्कुर्वाणाश्च फेरवः । वृका विचित्रं क्रन्दन्त ओतवोऽन्योऽन्ययोधिनः ॥ १४५ ।। पुच्छाच्छो कृतो व्याघ्राः फूत्कुर्वाणाः फणाभृतः । पिशाचप्रेतवेतालभूताश्चाऽऽकृष्टकैर्त्रिकाः ।। १४६ ।। १ प्राप्स्यामि । २ सेवितुमिच्छति । ३ कर्त्री कर्तरी ।
AAAAAA
सप्तमं पर्व
षष्ठः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
चन्द्रणखाविलापः, सीताबोधनार्थं
रावण
प्रयासः ।
।। १५८ ।।