________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५७॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
रामोऽप्युवाच सुग्रीवं सीतान्वेषणहेतवे । प्रयतस्व किमेताभिरपरेणाऽपि वस्तुना ॥ ११७ ।। इत्युक्त्वा बहिरुद्याने गत्वा तस्थौ रघूद्वहः । सुग्रीवोऽपि तदादेशात्प्रविवेश निजां पुरीम् ॥ ११८ ॥ इतश्च पुर्या लङ्कायां रावणान्तःपुरस्त्रियः । खरादिहननोदन्तान्मन्दोदर्यादयोऽरुदन् ।। ११९ ।। रुदती सह सुन्देन स्वसा चन्द्रणखाऽपि च । प्राविशद्रावणगृहं पाणिभ्यां कुट्टयन्त्युरः ॥ १२० ॥ दृष्ट्वा च रावणं कण्ठे लगित्वोच्चतरस्वरम् । रुदती निजगादैवं दैवेन निहताऽस्मि हा ! ।। १२१ ॥ हतः पुत्रो हतो भर्ता हतौ च मम देवरौ । चतुर्दश सहस्राणि हताश्च कुलपत्तयः ॥ १२२ ॥ पाताललङ्का चाऽऽच्छिन्ना राजधानी त्वदर्पिता । दर्पवद्भिर्विद्विषद्भिर्बन्धो ! जीवत्यपि त्वयि ।। १२३ ।। जीवग्राहं प्रणश्याऽहं सुन्देन सह सूनुना । त्वां शरण्यमिहाऽऽयाता कुत्र तिष्ठामि शाधि ? माम् ।।१२४ ।। अबोधयद्दशास्योऽपि रुदन्तीं तां ससौष्ठवः । त्वद्भर्तृपुत्रहन्तारं हनिष्याम्यचिरादपि ।। १२५ ॥ शोकेन तेन वैदेहीविप्रलम्भरुजाऽपि च । फालच्युत इव द्वीपी तल्पे तस्थौ निपत्य सः ।। १२६ ॥ अथ मन्दोदरी देवी तमुपेत्याऽभ्यधादिति । कथं प्राकृतवत् स्वामिन्निश्चेष्ट इव तिष्ठसि ? ॥१२७ ॥ रावणोऽप्यब्रवीदेवं वैदेहीविरहज्वरात् । न चेष्टितुं न वक्तुं च न चाऽऽलोकयितुं क्षमः ॥१२८ ॥ मया चेज्जीवता तेऽर्थस्तन्मानं प्रोज्झ्य मानिनि ! । गत्वाऽनुनय वैदेहीं यथा मयि रिरंसते ॥ १२९ ।। नाऽन्यनारीमनिच्छन्ती भुझे जातुचिदप्यहम् । अर्गला नियमो ह्यत्र ममाऽस्ति गुरुसाक्षिकः ॥ १३०॥ पीडिता पीडया पत्युः कुलीना साऽपि तत्क्षणम् । जगाम देवरमणोद्याने सीतामुवाच च ।।१३१ ॥
चन्द्रणखाविलापः ।
||१५७ ॥
१ सीताविरहपीडया ।२ त्यक्त्वा ।