________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५६॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
स्वयं दुःख्यपि तदुःखं छेत्तुं रामोऽभ्युपागमत् ।स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ।। १०२ ।। सीताहरणवृत्तान्तं विराधेनाऽवबोधितः । रामं विज्ञापयामास सुग्रीवोऽथ कृताञ्जलिः ॥ १०३ ॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो रवेः । न काऽपि कारणापेक्षा देव ! वच्मि तथाऽप्यदः ।। १०४ ॥ त्वत्प्रसादात्क्षतारिः सन् ससैन्योऽपि तवाऽनुगः । आनेष्यामि प्रवृत्तिं च सीताया नचिरादहम् ॥ १०५ ॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं सम्बोध्य विससर्ज च ।। १०६ ॥ रामभद्रेऽथ किष्किन्धापुरद्वारमधिष्ठिते । सुग्रीवो विटसुग्रीवमातास्त रणकर्मणे ।। १०७ ।। निनदन विटसुग्रीवोऽप्यागादाह्वानमात्रतः । रणाय नाऽलसाः शरा भोजनाय द्विजा इव ।। १०८ ।। दुर्धरैश्चरणन्यासैः कम्पयन्तौ वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ।। १०९ ॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः ? परश्च कः ? । इति संशयतस्तस्थावुदासीन इव क्षणम् ।।११० ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वजावाभिधधनुष्टङ्कारमकरोत्ततः ॥१११॥ धनुष्टङ्कारतस्तस्मात् सा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ।। ११२ ॥ विमोह्य मायया सर्वं परदारै रिरंससे ? । पापाऽरोपय रे! चापमिति रामस्ततर्ज तम् ॥ ११३ ॥ एकेनाऽपीषुणा प्राणांस्तस्याऽहार्षीद्रघूद्वहः । न द्वितीया चपेटा हि हरेर्हरिणमारणे ॥११४ ।। विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवाऽनमस्यत ।। ११५ ।। त्रयोदशः निजाः कन्या दातुमत्यन्तसुन्दरीः । रामभद्रमयाचिष्ट प्राञ्जलिर्वानरेश्वरः ॥११६ ॥ १ स्तुमिच्छसि ।
AASARASHREIAS
| विटसुग्रीववहननार्थ सुग्रीवस्य रामाश्रयणम्, तस्य स्वराज्यप्राप्तिश्च ।
॥१५६ ॥