________________
सप्तमं पर्व षष्ठः
त्रिषष्टिशलाकापुरुषचरिते ॥१५५॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
इदं तु विदधे साधु साध्वहो चन्द्ररश्मिना । तस्य पापीयसो रुद्धं शुद्धान्ते यत्प्रवेशनम् ।। ८७ ।। वधाय बलिनोऽमुष्य बलीयांसं श्रयामि कम् ? । यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥८८ ॥ भूर्भुवःस्वस्त्रयीवीरं मरुत्तमखभञ्जनम् । भजामि विद्वषद्घातहेतवे किं दशाननम् ? ।। ८९ ।। असौ किं तु प्रकृत्या स्त्रीलोलस्त्रैलोक्यकण्टकः । तं च मां च निहत्याऽऽशु तारामादास्यते स्वयम् ॥९० ॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत् खरः खरतरो राघवेण हतः स तु ॥९१ ।। तावेव रामसौमित्री गत्वा मित्रीकरोमि तत् । तत्कालोपनतस्याऽपि तौ विराधस्य राज्यदौ ।। ९२ ।। तौ तु पाताललायामलङ्कर्मीणदोर्बलौ । विराधस्योपैरोधेन तथैवाऽद्याऽपि तिष्ठतः ॥९३ ।। एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्यां विश्वासभूतं दूतं न्ययोजयत् ।।९४ ।। गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ।।९५ ॥ महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकर्तुं तव द्वारेण वाञ्छति ॥ ९६ ।। द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ।। ९७ ॥ प्रचचालाऽथ सुग्रीवोऽश्वानां ग्रैवेयकस्वनैः । दिशो मुखरयन् सर्वा वेगाद् दूरमदूरयन् ।। ९८॥ पाताललङ्कां स प्राप क्षणेनाऽप्युपवेश्मवत् । विराधमुपतस्थे चाऽभ्युत्तस्थौ सोऽपि तं मुदा ।। ९९ ।। विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखं च व्यजिज्ञपत् ।। १००॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । क्षुते हि सर्वथा मूंढे शरणं तरणिः खलु ।। १०१ ॥ १ स्त्रीलम्पटः । २ मायासुग्रीवम् । ३ आग्रहेण । ४ कण्ठाभरणस्वनैः । ५ समीपीकुर्वन् । ६ रक्षित्रे । ७ नष्टे । ८ सूर्यः ।
*SARASWASHRASIRSA
विटसुग्रीव
वहननार्थ | सुग्रीवस्य
रामाश्रयणम् ।
॥१५५ ॥