________________
त्रिषष्टिशलाकापुरुषचरिते ।।१५४॥
सप्तमं पर्व षष्ठः |सर्गः रामलक्ष्मणरावणचरितम् ।
युयुधाते महायोधौ तौ क्रोधारुणलोचनौ । विदधानौ जगत्त्रासं कीनाशस्येव सोदरौ ।। ७२ ।। तौ निशातैर्निशातानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छिदाते तृणच्छेदं रणच्छेकावुभावपि ।।७३ ।। शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरीगणः । महायुद्धे तयोवृक्षखण्डो महिषयोरिव ।।७४ ।। तौ छिन्नास्त्रावथाऽन्योऽन्यममर्षणशिरोमणी । मल्लयुद्धेनाऽऽस्फलतां पर्वताविव जङ्गमौ ॥७५ ।। उत्पतन्तौ क्षणाद् व्योग्नि निपतन्तौ क्षणाद् भुवि । ताम्रचूडाविवाऽभातां वीरचूडामणी उभौ ॥७६ ॥ तौ द्वावपि महाप्राणा मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ।। ७७ ॥ साहाय्यकार्थं सुग्रीवः समाहूयाऽअनासुतम् । भूयोऽपि युयुधे मायासुग्रीवेणोग्रकर्मणा ।। ७८ ॥ हनूमतः पश्यतोऽपि द्वयोर्भेदमजानतः । कुट्टयामास सुग्रीवं विटसुग्रीव उत्कटः ॥७९ ॥ पुनर्युद्धेन सुग्रीवः खिन्नः खिन्नतनुस्ततः । बहिर्निर्गत्य किष्किन्धपुरादावासमग्रहीत् ।। ८०॥ तत्रैव विटसुग्रीवस्तस्थावस्वस्थमानसः । अन्तःपुरप्रवेशं च न लेभे वालिनन्दनात् ।।८१ ॥ सुग्रीवो न्यश्चितग्रीवमथैवं पर्यचिन्तयत् । अहो ! स्त्रीलम्पटः कूडपटुः कोऽप्येष नो द्विषन् ।। ८२ ॥ आत्मीया अप्यनात्मीया द्विषन्मायावशीकृताः । अहो बभूवुस्तदसाववेस्कन्दो निजैर्हयैः ।। ८३ ।।। मायापराक्रमोत्कृष्टः कथं वध्यो द्विषन्मया ? । धिग्मां पराक्रमभ्रष्टं वालिनाम्नस्त्रपाकरम् ।।८४ ॥ धन्यो महाबलो वाली योऽखण्डपुरुषव्रतः । राज्यं तृणमिद त्यक्त्वा जगाम परमं पदम् ॥८५ ।। चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु द्वयोरभेदज्ञः कं रक्षतु निहन्तु कम् ? ।।८६ ॥ १ रणे छेकौ चतुरौ । २ वृक्षसमूहः । ३ हनूमन्तम् । ४ नम्रशीर्षं यथा तथा । ५ सङ्ग्रामः ।
द्वयोस्सुग्रीवयोर्युद्धम् ।
॥१५४ ॥