________________
त्रिषष्टि
शलाका
पुरुषचरिते 11943 11
ततः पाताललङ्कायां प्रविश्य रघुपुङ्गवौ । निवेशयामासतुस्तं विराधं पैतृके पदे ॥ ५७ ॥ प्रासादे खरराजस्य तस्थतू रामलक्ष्मणौ । युवराज इव पुनर्विराधः सुन्दवेश्मनि ॥ ५८ ॥ इतश्च साहसगतेश्चिरं ताराभिलाषिणः । सिद्धा प्रतारणी विद्या हिमवद्गिरिकन्दरे ।। ५९ ॥ तया सुग्रीवरूपः स कामरूप इवाऽमरः । जगाम किष्किन्धपुरे द्वितीयोऽर्क इवाऽम्बरे ।। ६० ।। क्रीडार्थं बहिरुद्याने सुग्रीवे च गते तदा । स तदन्तःपुरमगात्तारादेवीविभूषितम् ॥ ६१ ॥ आगाच्च सत्यसुग्रीवो द्वारि च द्वारपालकैः । स्खलितोऽग्रे गतो राजा सुग्रीव इति वादिभिः ॥ ६२ ॥ सुग्रीवद्वितयं दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं त्रातुं तद्द्द्वारं त्वरितो ययौ ।। ६३ ।। शुद्धान्ते विटसुग्रीवः प्रविशन् वालिसूनुना । मार्गाद्रिणा सरित्पूर इव प्रस्खलितस्ततः ।। ६४ ।। अथाऽमिलन् सैनिकानामक्षौहिण्यश्चतुर्दशः । आहूतानि जगत्सारसर्वस्वानीव सर्वतः ।। ६५ ।। द्वयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽर्थेऽर्धे विटसुग्रीवतोऽभवन् ।। ६६ । ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥ ६७ ॥ युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ।। ६८ ।। चतुरङ्गचमूचक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ।। ६९ ।। एह्येहि रे पेरगृहप्रवेशिन्निति तं ब्रुवन् । विटसुग्रीवमुद्ग्रीवः सुग्रीवो योद्धुमाह्वत ॥ ७० ॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् सम्मुखीनो युधेऽभवत् ॥ ७१ ॥ १ अन्तःपुरस्योपद्रवम् । २ हे परगृहप्रवेशिन् इति सम्बोधनम् ।
सप्तमं पर्व
षष्ठः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
साहसगतेः सुग्रीवरूप
करणम् ।
।। १५३ ।।