________________
त्रिषष्टिशलाकापुरुषचरिते ||१५२॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मण रावणचरितम् ।
पीयूषेणेव संसिक्तो रामभद्रस्तया गिरा । लब्धसज्ञो ददर्शाऽग्रे सस्वजे च निजानुजम् ॥ ४२ ॥ उदश्रुरूचे सौमित्रिः सिंहनादस्य कारणम् । जानकीहरणमिदं ध्रुवं कस्याऽपि मायिनः ।। ४३ ॥ तस्य प्राणैः सहैवाऽहमाहरिष्यामि जानकीम् । तत्प्रवृत्त्युपलम्भाय सम्प्रति प्रयतामहे ।। ४४ ।। पाताललङ्काराज्ये च स्थाप्यतामेष पैतृके । विराधः प्रतिपन्नं हि मयाऽमुष्मै खराहवे ॥ ४५ ॥ सीताप्रवृत्तिमानेतुं विद्याधरभटानथ । प्रजिघाय विराधस्तावारिराधयिषुः प्रभू ।। ४६ ॥ काकुत्स्थौ तस्थतुस्तत्र शोकानलकरालितौ । मुहुर्मुहुनिःश्वसन्तौ निर्दशन्तौ क्रुधाऽधरम् ।। ४७ ।। दूरं विद्याधराः भ्रान्त्वा विराधप्रहिताश्च ते । सीताप्रवृत्ति न प्रापुस्तत्रैत्याऽस्थुरधोमुखाः ॥ ४८ ।। तेषामधोमुखत्वेन ज्ञात्वा रामोऽब्रवीदिति । स्वामिकार्ये यथाशक्ति साधु युष्माभिरुद्यतम् ॥ ४९ ॥ सीताप्रवृत्तिन प्राप्ता को दोषस्तत्र वो भटाः !? | दैवस्य विपरीतस्य के यूयं कोऽपरोऽथवा ? ॥ ५० ॥ नत्वा विराधोऽप्यवदन्मा निर्वेदं कृथाः प्रभो! । अनिर्वेदः श्रियो मूलं तव भृत्योऽस्मि नन्वहम् ।। ५१ ॥ एहि पाताललङ्कायां निवेशयितुमद्य माम् । सीताप्रवृत्तिः सुलभा तत्र भर्तुर्भविष्यति ।। ५२ ॥ विराधेन ससैन्येन ततो रामः सलक्ष्मणः । ययौ पाताललायाः पुर्याः परिसरावनौ ॥ ५३ ॥ तत्राऽरिसूदनः सुन्दो नाम रक्षः खरात्मजः । सम्मुखीनो रणायाऽऽगान्महासैन्यसमावृतः ॥ ५४ ।। पुरोगेण विराधेन समं पूर्वविरोधिना । सुन्दश्चक्रे रणं घोरं सद्यः पितृवधक्रुधा ॥ ५५ ॥ अथो रणस्थे काकुत्स्थे सुन्दश्चन्द्रणखागिरा । सद्यः प्रणश्य लङ्कायां रावणं शरणं ययौ ॥५६॥ १ प्रतिज्ञातम् । २ खरसङ्ग्रामे ।
खरदुषणाभ्यां सह लक्ष्मणस्य युद्धम्, सीताया अन्वेषणश्च ।
। १५२ ॥