________________
त्रिषष्टि
शलाका
पुरुषचरिते 11949 11
+44 1
इत्युक्तवति सौमित्रावमित्रो राक्षसः खरः । खरं प्रहर्तुमारेभे दन्तीव गिरिसानुनि ।। २७ ।। लक्ष्मणोऽपि क्षणेनाऽपि कङ्कपत्रैः सहस्रशः । अम्बरं तिरयामास भानुभिर्भानुमानिव ॥ २८ ॥ भयङ्करः खेचराणां गरीयान् सङ्गरस्तयोः । अजायत श्राद्धदेवदैवतैकमहोत्सवः ॥ २९ ॥ विष्णुनाऽपि रणे यस्य शक्तिरीदृक् खरः स हि । प्रतिविष्णोरप्यधिको व्योमन्येवं गिरोऽभवन् ॥ ३० ॥ कालक्षेपो वधेऽस्याऽपीत्यमर्षाल्लज्जितः स्वयम् । सौमित्रिः खरमूर्धानं क्षुरप्रेणाऽच्छिदत् क्षणात् ॥ ३१ ॥ दूषणो लक्ष्मणेनाऽपि ससैन्यो योद्धुमुद्यतः । सञ्ज कुअर इव सयूथो दववह्निना ।। ३२ ।। ततः सार्धं विराधेन ववले रामसोदरः । स्फुरद्वामेक्षणः काममाशंसन्नार्ययोः शुभम् ॥ ३३ ॥ गत्वा दूरमपश्यच्च रामभद्रं द्रुमान्तरे । सीताविरहितं दृष्ट्वा विषादं परमं ययौ ।। ३४ ।। पुरःस्थमपि सौमित्रिमपश्यन् रघुपुङ्गवः । सीताविरहशल्येन पीडितः खेऽब्रवीदिति ।। ३५ ।। वनं भ्रान्तमिदं तावन्मया दृष्टा न जानकी । युष्माभिः किं न सा दृष्टा ? ब्रूते हे वनदेवताः ! ।। ३६ ।। अमुष्मन् भीषणेऽरण्ये भूतश्वापदसङ्घले । विमुच्यैकाकिनीं सीतां लक्ष्मणाय गतोऽस्मि हा ! ।। ३७ ।। रक्षोभटसहस्राग्रे संयत्येकं च लक्ष्मणम् । मुक्त्वा भूयोऽहमत्राऽऽगामहो ! धीर्मम दुर्धियः ॥ ३८ ॥ हा सीते ! निर्जनेऽरण्ये कथं मुक्ता मया प्रिये ! ? । हा वत्स ! लक्ष्मण ! कथं मुक्तोऽसि रणसङ्कटे ? ॥ ३९ ॥ एवं ब्रुवन् रामभद्रो मूर्च्छया न्यपतत् क्षितौ । क्रन्दद्भिः पक्षिभिरपि वीक्ष्यमाणो महाभुजः ॥ ४० ॥ लक्ष्मणोऽप्यब्रवीदेवमार्याय किमिदं ननु ? । तवाऽयं लक्ष्मणो भ्राता जित्वाऽरीन् समुपास्थितः ॥ ४१ ॥ १ तीक्ष्ण यथा स्यात्तथा । २ किरणैः । ३ श्राद्धदेवो यमः, स एव दैवतं, तस्य महोत्सवः । ४ आकाशे आकाशाभिमुखं दृष्ट्वाऽब्रवीदित्यर्थः । ५ रणे ।
सप्तमं पर्व षष्ठः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
रामलक्ष्मणाभ्यां सीतान्वेषणम् ।
।। १५१ ।।