________________
त्रिषष्टिशलाकापुरुषचरिते ||१५०॥
सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् ।
अत्राऽन्तरे च त्रिशिराः खरस्याऽवरजो भटः । को नामाऽस्मिंस्तवाऽऽक्षेप इति ज्येष्ठंन्यवारयत् ॥ १३ ॥ अथो रथस्थं त्रिशिरोराक्षसं समरोद्यतम् । जघान रामावरजो गणयस्तं पतङ्गवत् ॥ १४ ॥ तदा पाताललङ्केशचन्द्रोदरनृपात्मजः । विराधः सर्वसन्नाहिसैन्यस्तत्र समाययौ ।। १५ ॥ आरिराधयिषुर्नत्वा विराधो रामसोदरम् । इत्यूचे तव भृत्योऽहमेतेषां त्वद्विषां द्विषन् ।।१६।। चन्द्रोदराख्यं निर्वास्य पितरं मे महाभुज ! । पातललां जगूहुरमी रावणपत्तयः ।। १७ ॥ कः सखांऽशोस्तमोध्वंसे ! द्विषद्विदलने च ते! । तथाऽपि भृत्यलेशत्वाद्रणायाऽऽदिश मां प्रभो! ॥१८॥ स्मित्वा च लक्ष्मणोऽवोचद्धन्यमानान्मया द्विषः । पश्याऽमून विजयो ह्यन्यसाहाय्याहोष्मतां हिये ।। १९ ॥ अद्यप्रभृति ते स्वामी ज्येष्ठो मम रघूद्वहः । पाताललकाराज्ये च स्थापितोऽसि मयाऽद्य भोः ! ।।२० ॥ विरोधिनं विराधं स्वं तं दृष्ट्वा लक्ष्मणान्तिके । क्रुद्धोऽधिकं खरोऽभ्येत्याऽधिज्यधन्वैवमब्रवीत् ॥ २१ ॥ तनयो मम शम्बूकः क्वाऽस्ते विश्वस्तघातक!? | विराधेन वराकेण सख्या किं रक्ष्यसेऽधुना ? ॥ २२ ॥ स्मित्वा चोवाच सौमित्रिस्त्रिशिरा अपि तेऽनुजः । भ्रातुःपुत्रस्य सोत्कण्ठस्तमनुप्रेषितो मया ।। २३ ॥ पुत्रे भ्रातरि चोत्कण्ठा चेत्तवाऽपि बलीयसी । नेतुं त्वामपि तत्राऽस्मि सद्यः सज्यधनुर्ननु ॥ २४ ॥ मया प्रमादघातेन पादन्यासेन कुन्थुवत् । तव सूनुर्हतो मूढ! तत्र मे पौरुषं न हि ।।२५ ॥ अधुना त्वं भटम्मन्यश्चेत्पूरयसि कौतुकम् । त्वया प्रीणामि कीनाशं वनवासेऽपि संत्र्यहम् ।। २६ ।। १ कनीयान् भ्राता ।२ सर्व सन्नद्धं सैन्यं यस्य सः ।३ आराधयितुमिच्छुः । ४ सूर्यस्य । ५ शत्रुदलने । ६ ज्यया-प्रत्यञ्चया सहितं सज्यं धनुर्यस्य सः । ७ यमम् । ८ सत्री दाता।
रामलक्ष्मणाभ्यां सीतान्वेषणम् ।
।। १५०॥