________________
त्रिषष्टिशलाका
पुरुषचरिते
1198811
षष्ठः सर्गः ।
इतश्च रामः सम्प्राप्तस्त्वरितं तत्र चापभृत् । अमित्रैः सह सौमित्रिर्यत्राऽभूद्रणकेलिकृत् ॥ १ ॥ आयान्तं राममालोक्य सौमित्रिरिदमब्रवीत् । आर्यामेकाकिनीं मुक्त्वा किमार्येह त्वमागमः ? ॥ २ ॥ आहूतः सिंहनादेन तव वैधुर्यलक्ष्मणा । लक्ष्मणाऽहमिहाऽऽयातो व्याजहारेति राघवः ॥ ३ ॥ लक्ष्मणोऽप्यवदत्सिंहनादोऽकारि मया न हि । श्रुतश्चाऽऽर्येण तन्नूनं वयं केनाऽपि वञ्चिताः ॥ ४॥ अपहर्तुं सत्यमार्यामपनीतोऽस्युपायतः । सिंहनादस्य करणे श स्तोकं न कारणम् ॥ ५ ॥ तद्गच्छ शीघ्रमेवाऽऽर्य ! त्रातुमार्यां महाभुज ! | हत्वाऽ रीनहमप्येष यावदायामि पृष्ठतः ।। ६ । इत्युक्तो रामभद्रोऽगात् स्वस्थानं तत्र जानकीम् । नाऽपश्यच्च महीपृष्ठे मूच्छितो निपपात च ॥ ७ ॥ लब्धसञ्ज्ञः समुत्थाय तं मूमुषु जटायुषम् । ईक्षाञ्चक्रे रामभद्रो दध्याविति च तीक्ष्णधीः ॥ ८ ॥ केनाऽपि दयिता नूनं जड़े च्छ्लपरेण मे । तेनाऽपहारकुद्धोऽयं महात्मा निहतः खगः ॥ ९ ॥ ततः प्रत्युपकाराय श्रावकस्य जटायुषः । ददौ रामो नमस्कारं परलोकाध्वशम्बलम् ॥ १० ॥ स विपद्याऽभवत् कल्पे माहेन्द्रे प्रवरः सुरः । रामोऽपि सीतामन्वेष्टुमाटाऽटव्यामितस्ततः ।। ११ ।। इतश्च लक्ष्मणो वीरः खरेण प्रोज्यपत्तिना । योद्धुं प्रावर्ततैकोऽपि न सिंहस्य सखा युधि ॥ १२ ॥ १ शत्रुभिः । २ वैकल्यचिह्नेन । ३ हे लक्ष्मण । ४ दूरं नीतः । ५ प्राज्याः बहवः पत्तयो यस्य तेन ।
सप्तमं पर्व षष्ठः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
रामलक्ष्मणाभ्यां सीतान्वेषणम् ।
।। १४९ ।।