________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४८॥
तदानी सम्मुखा एयुर्मन्त्रिणः सारणादयः । अन्ये च रक्षःसामन्ताः समन्ताद्राक्षसप्रभोः ।। ४५७ ।। महोत्सवां महोत्साहो महासाहसकृत्पुरीम् । आगमद्रावणो लङ्कामलकीणविक्रमः ॥ ४५८ ।। न यावद्रामसौमित्रिक्षेमोदन्तसमागमः । भोक्ष्ये न तावदित्युच्चैः सीताऽभिग्रहमाददे ।। ४५९ ॥ लङ्कापूर्वदिशि स्थिते सुरवरोद्यानोपमे खेचर, स्त्रीणां विभ्रमधाम्नि देवरमणोद्याने स्वयं जानकीम् । रक्ताशोकतरोस्तले त्रिजटया चाऽऽरक्षकैरावृतां, मुक्त्वाऽगाद्दशकन्धरः प्रमुदितः स्वं धाम धाम्नां निधिः ।।४६० ।।
| सप्तम पर्व | पञ्चमः सर्गः रामलक्ष्मणरावण
चरितम् ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सप्तमपर्वणि सीताहरणो नाम
पञ्चमः सर्गः ।
रावणेन सीताहरणम् ।
܀ ܀ ܀ ܀ ܀
।।१४८ ॥