________________
सप्तमं पर्व पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ||१४७॥
|सर्गः
रामलक्ष्मणरावणचरितम् ।
निःशङ्कोऽथ दशग्रीवः सीतामारोप्य पुष्पके । चचाल नभसा तूर्णं पूर्णप्रायमनोरथः ॥ ४४२ ।। हा नाथ ! विद्विषन्माथ ! राम ! हा वत्स! लक्ष्मण! ।हा तातपादा! हा भ्रातर्भामण्डल ! महाभुज! ॥४४३ ॥ सीता वो ह्रियतेऽनेन काकेनेव बलिश्छलात् । एवं सीता रुरोदोच्चै रोदयन्तीव रोदसीम् ।। ४४४ ॥ श्रुत्वा तद्रुदितं रत्नजट्यर्कजटिनन्दनः । खेचरो विममर्शवं नूनं रामस्य पल्यसौ ॥ ४४५ ।। समुद्रोपरि शब्दोऽयं श्रूयते येन तेन तु । ह्रियते रावणेनेयं छलितौ रामलक्ष्मणौ ॥ ४४६ ॥ प्रभो मण्डलस्याऽद्योपकरोमीति जातधीः । दधावे खड्गमाकृष्य दशकन्धरमाक्षिपन् । ४४७ ।। युद्धायाऽऽह्वयमानं तं हसित्वैष दशाननः । सद्यो जहार तद्विद्यां विद्यासामर्थ्यतोऽखिलाम् ।। ४४८ ।। निकृत्तपक्षः पक्षीव हृतविद्यः पपातः सः । कम्बुद्वीपे कम्बुशैलमारुह्य समवास्थितः ।। ४४९ ।। रावणोऽपि विमानस्थो गच्छन् व्योम्नाऽर्णवोपरि । इति सानुनयं प्रोचे मैथिली मन्मथातुरः ।। ४५०॥ नभश्चरक्ष्माचराणां भर्तुर्मे महिषीपदम् । प्राप्ताऽसि रोदिषि कथं ? हर्षस्थाने कृतं शुचा ।। ४५१ ।। मन्दभाग्येन रामेण सह त्वां योजयन् विधिः । नाऽनुरूपं पुरा चक्रे मयाऽकार्यधुनोचितम् ।।४५२ ।। मां पतिं देवि ! मन्यस्व सेवया दाससन्निभम् । मयि दासे तव दासाः खेचर्यः खेचरा अपि ॥ ४५३ ॥ ब्रुवाणे रावणे त्वेवं सीता तस्थावधोमुखी । स्मरन्ती मन्त्रवद्भक्त्या राम इत्यक्षरद्वयम् ।। ४५४ ।। जानकीपादयोर्मूर्ना स पपात स्मरातुरः । साऽप्यपासारयत्पादौ परपुंस्पर्शकातरा ।। ४५५ ।। आचुक्रोश च सीतैवं निरनुक्रोश ! निस्त्रप! । अचिराल्लप्स्यसे मृत्यु परस्त्रीकामनाफलम् ॥ ४५६ ॥ १ विद्विषतां शत्रूणां माथो मथनं यस्मात्तत्सम्बोधने ।२ अचिन्तयत् । ३ लूनौ पक्षौ यस्य सः । ४ परपुरुषस्पर्शने कातरा ।
रावणेन
सीता
हरणम् ।
।।१४७ ॥