________________
त्रिषष्टिशलाकापुरुषचरिते ||१४६॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
इति चाऽचिन्तयदितः कष्टं रामो दुरासदः । इतश्च सीताहरणमितो व्याघ्र इतस्तटी ।। ४२७ ॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मञ्ज किङ्करीव कृताअलिः ॥ ४२८ ॥ ततश्चाऽज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमह्नाय मम सीतां हरिष्यतः ॥ ४२९ ॥ साऽवोचद्वासुकेौलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ।। ४३०॥ उपायः किं त्वसावस्ति यायाधेनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केत्तो ह्यनयोरयम् ॥ ४३१ ॥ एवं कुर्विति तेनोक्ता वजित्वा परतस्ततः । सा साक्षादिव सौमित्रिः सिंहनादं विनिर्ममे ।। ४३२ ।। सिंहनादं च तं श्रुत्वा रामो दध्यौ ससम्भ्रमः । जगत्यप्रतिमल्लो मे हस्तिमल्ल इवाऽनुजः ।। ४३३ ।। तं न पश्यामि सौमित्रिर्येन प्राप्नोति सङ्कटम् । तस्य सङ्कटसङ्केतक्ष्वेडा त्वत्र निशम्यते ।। ४३४ ।। एवं वितर्कव्यग्रोऽभूद्यावद्रामो महामनाः । सीता लक्ष्मणवात्सल्यात्तावदेवमवोचत ।। ४३५ ।। आर्यपुत्र ! किमद्याऽपि वत्से सङ्कटमागते । विलम्बसे ? द्रुतं गत्वा त्रायस्व ननु लक्ष्मणम् ।। ४३६ ।। इत्यादि सीतावचनैः सिंहनादेन चेरितः । जगाम त्वरितं रामोऽशकुनान्यप्यमानयन् ।। ४३७ ।। अथोत्तीर्य दशग्रीवो विमाने पुष्पकाभिधे । आरोपयितुमारेभे रुदन्ती जनकात्मजाम् ॥ ४३८ ॥ स्वामिन्येषोऽस्मि मा भैषीस्तिष्ठ तिष्ठ निशाचर! । रोषादिति वदन् दूराज्जटायुस्तमधावत ॥ ४३९ ।। स नोटिनखकोटीभिर्निशिताभिर्महाखगः । चकर्ष रावणस्योरः सीरैः कृषिमहीमिव ।। ४४० ॥ ततः क्रूद्धो दशग्रीवः खङ्गमारोप्य दारुणम् । पक्षौ छित्त्वाऽपातयत्तं पैतङ्गं पृथिवीतले ॥ ४४१ ॥ १ येन-उपायेनैष रामो लक्ष्मणं यायात् । २ लक्ष्मणस्यैव ।३ चचूनखाग्रैः । ४ हलैः । ५ पक्षिणम् ।
विद्यारैस्सह लक्ष्मणस्य
सीताहरणार्थ रावणस्यागमनम् ।
॥१४६ ॥