________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
॥१४५॥
किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः ? । इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ।। ४१३ ॥ गच्छ वत्स ! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं ममाऽऽहूत्यै कुर्या इत्यन्वशात्स तम् ॥ ४१४ ॥ रामाज्ञां प्रतिपद्योच्चैर्लक्ष्मणोऽथ धनुःसखः । गत्वा प्रववृते हन्तुं स तांस्तार्क्ष्य इवोरगान् ।। ४१५ ॥ प्रवर्धमाने तयुद्धे स्वभर्तुः पाwिवृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणस्वसा ।। ४१६ ॥ आयातौ दण्डकारण्ये मनुष्यौ रामलक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते जामेयं यमगोचरम् ।। ४१७ ॥ श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो ययौ । तत्र सौमित्रिणा सार्धं युध्यमानोऽस्ति सम्प्रति ।। ४१८ ॥ कनिष्ठभ्रातृवीर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह ।। ४१९ ।। सीता च रूपलावण्यश्रिया सीमेव योषिताम् ।न देवी नोरगी नाऽपि मानुष्यन्यैव काऽपि सा ।। ४२० ॥ तस्या दासीकृताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ।। ४२१ ।। आसमुद्रसमुद्राज्ञ ! यानि कान्यपि भूतले । तवैवाऽर्हन्ति रत्नानि तानि सर्वाणि बान्धव! ॥४२२ ।। दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद् गृह्णीया न चेत्तन्नाऽसि रावणः ।।४२३ ॥ आरुह्य पुष्पकमथाऽऽदिदेश दशकन्धरः । विमानराज ! त्वरितं याहि यत्राऽस्ति जानकी ॥४२४ ।। ययौ चाऽऽत्यन्तवेगेने विमानमनुजानकि । स्पर्धयेव दशग्रवीमनसस्तत्र गच्छतः ।। ४२५ ।। दृष्ट्वाऽपि रामादत्युग्रतेजसो दशकन्धरः । बिभाय दूरे तस्थौ च व्याघ्रो हुतवहादिव ॥ ४२६ ।। १ धनुःसहायः । २ गरुडः । ३ पाणिः सेनापृष्ठभागः । ४ अबुधौ । ५ युद्धस्थानादन्यत्र । ६ समुद्रपर्यन्तं मुद्रया सहिताज्ञा यस्य यत्सम्बोधनम् ।
विद्यारैस्सह लक्ष्मणस्य युद्धम् ।
॥ १४५ ॥