________________
त्रिषष्टि-
शलाका
पुरुषचरिते
1198811
कन्यारूपं विकृत्याऽथ नागकन्यासहोदरम् । सा मन्मथार्त्ता काकुत्स्थमुपतस्थे सवेपथुः ।। ३९९ ।। भाषे रामभद्रतां भद्रे ! कुत इहाऽऽगमः । दारुणे दण्डकारण्ये कृतान्तैकनिकेतने ? ॥ ४०० ॥ साऽप्यूचेऽवन्तिराजस्य कन्याऽहं भवनोपरि । सुप्ता हृताऽस्मि केनाऽपि खेचरेण क्षपान्तरे ।। ४०१ ॥ इहाऽरण्ये समायातो दृष्टः सोऽन्येन केनचित् । विद्याधरकुमारेण जगदे चेति सासिना ।। ४०२ ।। स्त्रीरत्नमपहृत्येदं चिल्लो हारलतामिव । क्व गमिष्यसि रे पाप ! मृत्युस्तेऽहमुपस्थितः ॥ ४०३ ॥ इत्युक्तः सोऽत्र मां मुक्त्वा तेनाऽऽजिं सुचिरं व्यधात् । उभावपि विपेदाते मत्तौ वनगजाविव ।। ४०४ ।। एकाकिनी कान्दिशीका भ्राम्यन्त्यहमितस्ततः । प्राप्ता त्वां पुण्ययोगेन च्छायाद्रुमिव जङ्गले ।। ४०५ ।। तन्मां परिणय स्वामिन्! कुमारीं कुलसम्भवाम् । महत्सु जायते जातु न वृथा प्रार्थनाऽर्थिनाम् ॥ ४०६ ॥ ध्रुवं मायाविनी काचिन्नटवद्वेषधारिणी । कूटनाटकमुत्पाद्याऽऽगाद्वञ्चयितुमत्र नः ।। ४०७ ।। चिन्तयन्ताविति चिरं बुद्धिसंवादिनौ मुखम् । अन्योऽन्यमीक्षाञ्चक्राते स्मेरीक्षौ रामलक्ष्मणौ ॥ ४०८ ॥ ॥ युग्मम् ॥
अथ रामः स्मितज्योत्स्नापूरस्तबकिताधरः । तामित्यूचे सभार्योऽहमभार्यं भज लक्ष्मणम् ॥ ४०९ ॥ तयाऽर्थितस्तथैवैत्य लक्ष्मणोऽप्येवमब्रवीद् । आर्यं गता त्वमार्येव तदलं वार्तयाऽनयः ।। ४१० ।। सा याञ्चाखण्डनात् पुत्रवधाच्च रुषिताधिकम् । आख्यद्गत्वा खरादीनां तत्कृतं तनयक्षयम् ॥ ४११ ।। विद्याधरसहस्रैस्ते चतुर्दशभिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपाः ।। ४१२ ।। १ कामार्त्ता । २ रात्रिमध्ये । ३ खड्गसहितेन । ४ पक्षिविशेषः । ५ युद्धम् । ६ प्रफुल्लनेत्री ।
सप्तमं पर्व
पञ्चमः सर्गः
रामलक्ष्मण
रावण
चरितम् ।
लक्ष्मणेन सूर्यहास
ग्रहणम् । शम्बूकस्य शिरच्छेदः ।
चन्द्रणखाप्रार्थना
खण्डनम् ।
।। १४४ ।।