________________
सप्तमं पर्व पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ॥१४३॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
क्रीडयेतस्ततो भ्राम्यंस्तत्र सौमित्रिराययौ । ददर्श सूर्यहासासिं सूर्यस्येव करोत्करम् ।।३८५ ।। तं खड्गमाददे सोऽथ प्रत्याकाराच्चकर्ष च । अपूर्वशस्त्रालोके हि क्षत्रियाणां कुतूहलम् ।। ३८६ ।। तत्तीक्ष्णत्वपरीक्षार्थ तत्क्षणं तेन लक्ष्मणः । अभ्यर्णस्थां वंशजाली नाललावं लुलाव च ।। ३८७ ।।। वंशजालान्तरस्थस्य शम्बूकस्याऽथ कर्तितम् । भूतले मौलिकमलं सोऽपश्यत्पतितं पुरः ।। ३८८ ।। प्रविवेशाऽग्रतो यावत् सौमित्रिवंशगह्वरम् । तावत्कबन्धमैक्षिष्ट वटशाखावलम्बिनम् ।। ३८९ ॥ अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो मया । अमुना कर्मणा धिङ्मामित्यात्मानं निनिन्द सः ॥३९० ।। गत्वा च रामभद्राय तदशेष शशंस सः । असिं च दर्शयामास रामोऽप्येवमभाषत ।। ३९१ ।। असावसिः सूर्यहासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥३९२ ।। अत्राऽन्तरे दशग्रीवस्वसा चन्द्रणखाभिधा । मत्सूनोः सूर्यहासोऽद्य सेत्स्यतीति कुतत्वरा ॥३९३ ।। पूजापानान्नसहिता तत्र प्रमुदिता ययौ । ददर्श च शिरः सूनोश्च्छिन्नं लुलितकुण्डलम् ॥ ३९४ ॥
॥युग्मम् ॥ क्वाऽसि हा वत्स! शम्बूक शम्बूकेति रुदत्यथ । अपश्यलक्ष्मणस्याऽग्रिन्यासपड्क्ति मनोहराम् ।। ३९५ ॥ मम सूनुर्हतो येन तस्येयं पदपद्धतिः । इति तत्पदपद्धत्या द्रुतं चन्द्रणखा ययौ ॥३९६ ॥ यावत् किञ्चिदगात्तावत् ससीतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपश्यत्तरुतले स्थितम् ।। ३९७ ।। निरीक्ष्य रामं सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ! ।।३९८ ।। १ किरणसमूहम् । २ शीर्षकमलम् । ३ रन्तुमिच्छा रिरंसा । ४ शोकाधिके ।
लक्ष्मणेन | सूर्यहासग्रहणम् ।
।।१४३ ॥