________________
त्रिषष्टिशलाकापुरुषचरिते ||१४२॥
| सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
तदादि दण्डकारण्यमिदं दारुणमुद्वसम् । दण्डकस्याऽभिधानेन बभूव भुवि विश्रुतम् ।। ३७० ॥ दण्डकोऽपि भवे भ्रान्त्वा दुःखखानिषु योनिषु । गन्धाख्योऽयमभूत् पक्षी महारोगी स्वकर्मभिः ।। ३७१ ॥ अस्याऽस्मद्दर्शनाज्जातिस्मरणं समजायत । अस्मत्स्पर्शीषधीलब्ध्या रोगाश्च क्षयमासदन् । ३७२ ॥ तच्छ्रुत्वा मुदितः पक्षी भूयोऽपि मुनिपादयोः । पपात धर्म चाऽौषीच्छ्रावकत्वं च शिश्रिये ।। ३७३ ।। जीवघातपलाहाररात्रिभोजनकर्मणाम् । प्रत्याख्यानं ददौ तेस्येप्सितं ज्ञात्वा महामुनिः ।। ३७४ ।। इत्यूचे च मुनी रामं साधर्मिक इहैष वः । साधर्मिके च वात्सल्यमुक्तं श्रेयस्कर जिनैः ।। ३७५ ।। बन्धुन एष परम इत्युक्त्वा राघवेण तौ । वन्दितौ नभसोत्पत्य मुनी जग्मतुरन्यतः ।। ३७६ ।। तं दिव्यं रथमारुह्य जानकीरामलक्ष्मणाः । विजहुः क्रीडयाऽन्यत्र सहचारिजटायवः ।। ३७७ ।। इतः पाताललङ्कायां खरचन्द्रणखात्मजौ । शम्बूकसुन्दनामानावभूतां नवयौवनौ ।। ३७८ ॥ पितृभ्यां वार्यमाणोऽपि दण्डकारण्यमन्यदा । शम्बूकः सूर्यहासासिसाधनार्थमुपेयिवान् ।। ३७९ ॥ सोऽथ क्रौञ्चरवातीरे स्थित्वाऽन्तर्वंशगह्वरम् । वारयिष्यति मां यस्तं हनिष्यामीत्यवोचत ।। ३८० ।। एकान्नभुग्विशुद्धात्मा ब्रह्मचारी जितेन्द्रियः । अधोमुखो वटशाखानिबद्धचरणद्वयः ।।३८१ ॥ विद्यां जपितुमारेभे सूर्यहासासिसाधिनीम् । सप्ताहाग्रद्वादशाब्द्या या सिद्धिमुपगच्छति ।। ३८२ ।। एवं च तस्थुषस्तस्य वल्गुलीस्थानकस्पृशः । वर्षाणि द्वादशाऽतीयुश्चत्वारि दिवसानि च ।। ३८३ ॥ सेद्धकामः सूर्यहासः प्रेत्याकारतिरोहितः । स्फूर्जत्परिमलो व्योम्ना तत्राऽऽगाद्वंशगहरे ।। ३८४ ।। १ पलं मांसम् । २ पक्षिणः । ३ सहचारी जयपुर्येषां ते । ४ वल्गुलोऽधोमुखस्थायी पक्षी तस्य स्थानमाश्रितः । ५ कोशच्छन्नः ।
दण्डकारण्यस्वरूपम् सूर्यहासासिसाधनार्थ द्वयोरागमनम् ।
॥१४२ ॥