________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४१॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
अविचार्य ततो राजाऽप्यादिदेशेति पालकम् । साधु मन्त्रिस्त्वया ज्ञातं चक्षुष्मान् भवता ह्यहम् ।। ३५५ ।। कर्तुं त्वमेव जानासि दुर्मतेरस्य चोचितम् । तत्कुरुष्व न भूयोऽपि प्रष्टव्योऽहं महामते! ।। ३५६ ॥ इत्युक्तः पालकः शीघ्रं गत्वा यन्त्रमकारयत् । स्कन्दकस्याऽग्रतः साधूनेकैकं च न्यपीलयत् ।। ३५७ ॥ निःपील्यमानानेतांस्तु देशनापूर्वकं स्वयम् । अकारयत् स्कन्दकोऽपि सम्यगाराधनाविधिम् ।। ३५८ ।। उपयन्त्रं शिशौ नीते परिवारान्तिमे मुनौ । कारुण्यात् स्कन्दकाचार्य इत्यभाषत पालकम् ।। ३५९ ॥ आदौ पीलय मामेव कुरुष्वैतद्वचो मम । बालं मुनि न पश्यामि पील्यमानं यथा ह्यमुम् ।।३६० ।। तत्पीडापीडितं ज्ञात्वा स्कन्दकं पालकोऽपि हि । तमेव बालकमुनि तत्पीडार्थमपीलयत् ।। ३६१ ॥ उत्पन्नकेवलाः सर्वेऽप्यवापुः पदमव्ययम् । प्रत्याख्याय स्कन्दकस्तु निदानमिति निर्ममे ।। ३६२ ।। दण्डकस्य पालकस्य तथाऽत्र कुलराष्ट्रयोः । व्यापादनाय भूयासं तपसोऽस्य फलं यदि ।। ३६३ ।। एवं कृतनिदानः सन् पीलितः पालकेन सः । देवो वह्निकुमारोऽभूत् कालाग्निरिव तत्क्षये ।। ३६४ ।। पुरन्दरयशोदत्तरत्नकम्बलतन्तुजम् । तद्रजोहरणं रेक्तेनाऽक्तं शकुनिकाऽहरत् ।। ३६५ ।। दोर्दण्डबुद्ध्या यत्नेन गृहीतमपि तत् ततः । पुरः पुरन्दरयशोदेव्या दैवात् पपात सः ।। ३६६ ।। विदाञ्चकार सा भ्रातुर्महर्षेर्विपदं ततः । किमकार्षीः पाप ! पापमित्याक्रोशच्च दण्डकम् ॥३६७ ॥ तां शोकमग्नामुद्धृत्याऽनैषीच्छासनदेवता । मुनिसुव्रतपादान्ते प्रव्रज्यामाददे च सा ॥३६८ ॥ स्कन्दकाग्निकुमारोऽपि प्राग्जन्माऽवधिना विदन् । सपालकं सपूर्लोकमदहद्दण्डकं नृपम् ।। ३६९ ।। १ परिवारेऽन्तिमश्चरमस्तस्मिन् । २ रक्तेन शोणितेनाऽक्त-व्याप्तम् । ३ पक्षिणी ।
स्कन्दकाचार्यवृत्तान्तम् ।
॥१४१॥