________________
त्रिषष्टिशलाकापुरुषचरिते ||१४०॥
| सप्तमं पर्व | पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
जितशत्रुस्तदा चाऽर्हद्धर्मगोष्ठीपरोऽभवत् । आरेभे पालकस्तं तु धर्म दूषयितुं कुधीः ।। ३३९ ।। स स्कन्दककुमारेण मिथ्यादृष्टिर्दुराशयः । युक्त्या निरुत्तरीचक्रे सत्यसंवादपूर्वकम् ।। ३४० ।। तदा स हसितः सभ्यैरमर्ष स्कन्दकेऽदधत् । विसृष्टश्चाऽन्यदा राज्ञा कुम्भकारकटं ययौ ॥३४१ ॥ विरक्तश्चाऽन्यदा पञ्चराजपुत्रशतान्वितः । मुनिसुव्रतपादान्ते स्कन्दको व्रतमाददे ।। ३४२ ।। पुरन्दरयशोमुख्यलोकं बोधयितुं पुरे । कुम्भकारकटे यामीत्यापप्रच्छे स च प्रभुम् ।। ३४३ ॥ उवाच प्रभुरप्येवं तत्र ते मारणान्तिकः । गतस्य सपरीवारस्योपसर्गो भविष्यति ॥ ३४४ ।। वयमाराधकास्तत्र भाविनो वा न वेत्यथ । भूयोऽपि स्कन्दकोऽपृच्छत् स्वामिनं मुनिसुव्रतम् ॥३४५ ॥ त्वां विनाऽऽराधकाः सर्वेऽपीत्याख्यद् भगवानपि । सर्वमेतर्हि सम्पूर्णमित्युक्त्वा स्कन्दकोऽचलत् ॥३४६ ।। क्रमेण स्कन्दकाचार्यो मुनिपञ्चशतीयुतः । गच्छन्नासादयामास कुम्भकारकटं पुरम् ।। ३४७ ।। तं दृष्ट्वा पालकः क्रूरः संस्मरंस्तं पराभवम् । साधूपयोग्योद्यानेषु शस्त्राण्युामखानयत् ।। ३४८ ।। उद्याने स्कन्दकाचार्य एकस्मिन् समवासरत् । आययौ वन्दितुं तं च दण्डकः सपरिच्छदः ॥ ३४९ ॥ स्कन्दको देशनां चक्रे जहूषुर्बहवो जनाः । प्रहृष्टो देशनान्ते च वेश्माऽगाद्दण्डको नृपः ॥३५० ॥ गत्वा रहसि राजानमित्यूचे पालकः कुधीः । स्वामिन्नेष बकाचारः पाखण्डी स्कन्दकः खलु ।। ३५१ ।। सहस्रयोधिभिः पुम्भिर्मुनिवेषधरैरसौ । त्वां हत्वा राज्यमादातुमागादिह महाशठः ।। ३५२ ।। अत्रोद्याने स्वस्थाने च मुनिवेषैर्महाभटैः । छन्नं क्षिप्तानि शस्त्राणि दृष्ट्वा प्रत्येतु भूपतिः ।।३५३ ॥ ततश्चाऽखानयद्राजा मुनिस्थानानि सर्वतः । चित्राण्यस्त्राण्यपश्यच्च विषादं च परं ययौ ।।३५४ ।।
जययुपूर्वभवस्वरूपम्, स्कन्दकाचार्यवृत्तान्तम् ।
॥ १४० ॥