________________
सप्तमं पर्व पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ॥१३९॥
सर्गः रामलक्ष्मणरावणचरितम् ।
द्विमासोपोषितौ तौ तु पारणार्थमुपस्थितौ । भक्त्या ववन्दिरे रामसीतासौमित्रयस्त्रयः ॥३२५ ॥ यथोचितैरन्नपानैः सीता तौ प्रत्यलाभयत् । तदा देवैर्विदधिरे रत्नगन्धाम्बुवृष्टयः ।। ३२६ ॥ तदा रत्नजटी कम्बुद्वीपविद्याधरेश्वरः । द्वौ सुरौ चैत्य रामाय प्रीताः साश्वं रथं ददुः ।। ३२७ ।। गन्धाम्बुवृष्टिगन्धेन तत्र गन्धाभिधः खगः । उत्तीर्य पादपादोगी तद्वास्तव्यः समाययौ ।। ३२८ ।। सातजातिस्मरणो मुनेदर्शनमात्रतः । पपात मूर्छया भूमौ सीताऽम्भोभिः सिषेच तम् ।। ३२९ ॥ लब्धसञ्ज्ञः समुत्थाय साधुपादेषु सोऽपतत् । साधोः स्पर्शीषधीलब्ध्या नीरोगश्चाऽभवत्क्षणात् ।। ३३० ॥ पक्षौ हेमावजायेतां चञ्चूर्विद्रुमविभ्रमा । पद्मरागप्रभौ पादौ नानारत्नप्रभं वपुः ।। ३३१ ।। रत्लाङ्कुरश्रेणिनिभा जटाः शिरसि चाऽभवन् । जटायु म तस्याऽभूत्ततः प्रभृति पक्षिणः ।। ३३२ ।।
॥युग्मम् ॥ रामोऽपृच्छन्महर्षी तौ गृध्रः क्रव्यादयं कुधीः । स्थित्वा वः पादयोः पार्थे शान्तः कस्मादजायत ।।३३३ ।। भदन्तावयमत्यन्तविरूपावयवः पुरा । कथमद्य क्षणाज्जातौ हेमरत्नोत्कुरद्युतिः ।। ३३४ ॥ सुगुप्तर्षिरथाचख्यावासीदिह पुरा पुरम् । कुम्भकारकटं नाम राजा तत्रैष दण्डकः ।।३३५।। श्रावस्त्यां च तदा राजा जितशत्रुरजायत । धारिणी नाम तत्पनी स्कन्दको नाम तत्सुतः ।। ३३६ ।। पुरन्दरयशा नामाऽभवच्च दुहिता तयोः । कुम्भकारकटेशस्तां पर्यणैषीच्च दण्डकः ।।३३७ ।। अन्यदाऽर्थेन केनाऽपि जितशत्रुनृपान्तिके । प्राहिणोद्दण्डको दूतं पालकं नामतो द्विजम् ॥३३८ ॥ १ क्रव्यं मांसमत्तीति क्रव्याद् क्विप्प्रत्ययान्तः । २ हे भगवन्तौ ।
जटायुअधिकारः।
॥१३९ ।।