________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३८॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
अनलप्रभदेवः सोऽनन्तवीर्यमहामुनेः । पार्थे केवलिनोऽगच्छत् सह देवैः कुतूहलात् ।। ३११ ।। देशनान्तेऽनन्तवीर्यः पृष्टः शिष्येण केनचित् । मुनिसुव्रततीर्थेऽस्मिन् कः पश्चात्तव केवली ? ॥३१२ ॥ सोऽप्याख्यन्मम निर्वाणे केवली कुलभूषणः । देशभूषण इति च भ्रातरौ द्वौ भविष्यतः ।। ३१३ ॥ तच्चाऽनलप्रभः श्रुत्वा निजं स्थानमुपेत्य च । विभङ्गेनाऽन्यदा ज्ञात्वा कायोत्सर्गस्थिताविह ।। ३१४ ।। मिथ्यात्वेनाऽन्तवीर्यवचनं कर्तुमन्यथा । प्राग्जन्मवैराच्च स नावुपदुद्राव दारुणम् ॥३१५ ॥
।युग्मम् ॥ दिनान्यतीयुश्चत्वारि तस्योपद्रवतो दृढम् । अद्याऽऽयातौ युवामत्र युष्मद्भीत्याऽनशच्च सः ॥३१६ ।। कर्मक्षयादावयोश्च केवलं समजायत । कर्मक्षये सहायोऽयमुपसर्गपरोऽप्यभूत् ।। ३१७ ॥ महालोचनदेवोऽपि तदोचे गरुडाधिपः । काकुत्स्थ ! साध्वकार्षीस्त्वं किं प्रत्युपकरोमि ते ? ॥३१८ ।। नोऽर्थो नः कश्चिदप्यस्तीत्युक्ते रामेण सोऽमरः । तथाऽप्युपकरिष्यामि क्वाऽपीत्युक्त्वा तिरोदधे ।।३१९ ॥ अथ वंशस्थलाधीशो राजा नाना सुरप्रभः । तत्राऽऽगत्य नमश्चक्रे राममानर्च चोच्चकैः ।। ३२० ।। रामाज्ञया तत्र शैले सोऽर्हच्चैत्यान्यकारयत् । रामनाम्ना रामगिरिगिरिः सोऽभूत्तदादि च ॥ ३२१ ॥ सुरप्रभमथाऽऽपृच्छ्य प्रतस्थे रघुपुङ्गवः । उद्दण्डं दण्डकारण्यं प्रविवेश च निर्भयः ।।३२२ ।। विधाय तत्र चाऽऽवासं महागिरिगुहागृहे । काकुत्स्थः सुस्थितस्तस्थौ स्वकीय इव वेश्मनि ।। ३२३ ॥ तत्र भोजनवेलायामन्येधुश्चारणौ मुनी । नाना त्रिगुप्तसुगुप्तौ नभसा समुपेयतुः ।। ३२४ ॥ १ नौ आवाम् । २ न प्रयोजनम् ।
उपसर्गकारणकथनम्, दण्डकारण्ये रामस्यावासः, चारणयोरागमनम्।
॥१३८ ।