________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३७॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
ततो मृत्वा भवं भ्रान्त्वा चिरान्मयो बभूव सः । तापसीभूय भूयोऽपि चकाराऽज्ञानकं तपः ।।२९६ ।। मृत्वाऽनलप्रभः सोऽयं ज्योतिष्कस्त्रिदशोऽभवत् । दीक्षां रत्नरथचित्ररथौ जगृहतुश्च तौ ॥२९७ ॥ विपद्य चाऽच्युते कल्पेऽतिबलोऽथ महाबलः । नामधेयेन जज्ञाते त्रिदशौ प्रवरर्द्धिकौ ॥२९८ ॥ च्युत्वा च सिद्धार्थपुरे क्षेमङ्करमहीपतेः । महिष्या विमलदेव्यास्तौ कुक्षाववतेरतुः ॥२९९ ।। क्रमादजनिषातां च विमलायामुभौ सुतौ । कुलभूषण एषोऽहं तथाऽयं देशभूषणः ॥३००॥ उपाध्यायस्य घोषस्याऽर्पितौ पाठाय भूभुजा । अपठाव कलाः सर्वा द्वादशाब्दीमवस्थितौ ।। ३०१ ॥ त्रयोदशेऽब्दे घोषेण सहाऽऽयातौ नृपान्तिके । राजवेश्मन्यपश्याव कन्यां वातायनस्थिताम् ।।३०२ ।। जातानुरागौ तस्यां च सद्योऽपि विमनायितौ । अगमावाऽन्तिकं राज्ञोऽदर्शयावाऽखिलाः कलाः ॥३०३ ।। उपाध्यायोऽर्चितो राज्ञा जगाम निजमन्दिरम् । आवां च मातरं नन्तुं गतौ राजाज्ञया ततः ॥३०४ ।। तत्र चाऽऽवामपश्याव तां कन्यां मातुरन्तिके । अशंसच्चाऽम्बा युवयोः स्वसेयं कनकप्रभा ।। ३०५ ॥ घोषोपाध्यायसदने युवयोस्तस्थुषोः सतोः । जातेयं वत्सौ ! तेनेमां नोपलक्षयथो युवाम् ।। ३०६ ॥ तच्छ्रुत्वा लज्जितावावामज्ञानात् स्वसृकाक्षिणौ । क्षणाद्वैराग्यमापन्नौ प्राव्रजावाऽन्तिके गुरोः ॥३०७॥ तप्यमानौ तपस्तीव्रमिहाऽऽयातौ महागिरौ । कायोत्सर्गेण चाऽस्थाव निरपेक्षौ वपुष्यपि ॥३०८ ॥ पिताऽऽवयोर्वियोगेन गृहीत्वाऽनशनं मृतः । गरुडेशोऽभवद्देवो महालोचननामकः ॥३०९ ।। विज्ञायाऽऽसनकम्पेन चोपसर्ग स आवयोः । सम्प्रत्ययमिहाऽऽयातः प्राग्जन्मस्नेहपीडितः ॥३१०॥
मुनिना पूर्वभवकथनम् ।
॥१३७ ।।
१न जानीथः ।