________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३६॥
सप्तमंच पञ्चमः सर्गः रामलक्ष रावण
चरितम्
सम्मेते वन्दितुं चैत्यान्युदितो मुदितोऽपि च । प्रचेलतुः पथि भ्रान्तौ पल्ली तां च समेयतुः ।। २८१ ॥ पूर्ववैराद्वसुभूतिजीवो म्लेच्छो निरीक्ष्य तौ । हन्तुं दधावे म्लेच्छाधिपतिना च न्यषिध्यत ।। २८२ ॥ म्लेच्छेशः प्राग्भवे सोऽभून्मृगो व्याधाच्च मोचितः । मुदितोदितजीवाभ्यां कर्षकाभ्यां च तद्भवे ।। २८३ ।। तेन म्लेच्छाधिपेनाऽतस्त्रातौ सम्मेतमेत्य च । तौ चैत्यानि ववन्दाते विजड़ाते चिराय च ।। २८४ ।। विधायाऽनशनं मृत्वा महाशुक्रे सुरोत्तमौ । तौ सुन्दरसुकेशाख्यावजायेतां महर्द्धिकौ ।। २८५ ॥ भ्रान्त्वा भवं वसुभूतिजीवो म्लेच्छः कथञ्चन । अवाप मानुषं जन्म तत्र सोऽभूच्च तापसः ॥२८६ ।। स विपद्य समुत्पेदे ज्योतिष्केषु सुरेषु तु । धूमकेतुर्नाम देवो मिथ्यादृष्टिर्दुराशयः ।। २८७ ।। उदितमुदितजीवौ शुक्राच्युत्वाऽत्र भारते । महापुरेऽरिष्टपुरे प्रियंवदमहीपतेः ॥ २८८ ।। पद्मावत्यां सधर्मिण्यामजायेतामुभौ सुतौ । विश्रुतौ नामतो रत्नरथचित्ररथाविति ।। २८९ ।। धूमकेतुरपि च्युत्वा पल्यां तस्यैव भूपतेः । बभूव कनकाभार्यां नाम्ना सूनुरनुद्वरः ।।२९० ।। अभूत्समत्सरो रत्नरथे चित्ररथे च सः । तस्योपरि न मात्सर्यं बिभराञ्चक्रतुस्तु तौ ।।२९१ ॥ न्यस्य रत्नरथे राज्यं यौवराज्यं द्वयोः पुनः । प्रियंवदः षड्दिनानि प्रायं कृत्वा सुरोऽभवत् ।। २९२ ॥ राज्यं पालयतो रत्नरथस्यैको नृपो ददौ । श्रीप्रभा नाम कन्यां स्वां याचमानेऽप्यनुद्वरे ।। २९३ ।। क्रुद्धोऽथाऽनुद्वरो रत्नरथस्योर्वीमलुण्टयत् । पातयित्वा रणे रत्नरथेन जगृहे च सः ।। २९४ ॥ विडम्ब्य बहुधा रत्नरथेन मुमुचेऽथ सः । तापसोऽभूच्च स्त्रीसङ्गान्मोघीचक्रे निजं तपः ।। २९५ ।। १ अनशनम् । २ विफलीचक्रे ।
उपसर्ग
कारणपृष्टे मुनिना पूर्वभवकथनम् ।
॥१३६॥