________________
त्रिषष्टि
शलाकापुरुषचरिते ॥१३५॥
सप्तमं पर्व पञ्चमः सर्गः | रामलक्ष्मणरावणचरितम् ।
तदा चाऽस्तं ययावर्को जजृम्भे च विभावरी । विकृतानेकवेतालश्चाऽऽगाद्देवोऽनलप्रभः ।। २६६ ॥ स्वयं वेतालरूपः सोऽट्टहासैः स्फोटयन्नभः । महर्षी तावुपद्रोतुं प्रावर्तत दुराशयः ॥२६७ ।। मुक्त्वोपसाधु वैदेही सन्नद्धौ रामलक्ष्मणौ । उत्तस्थाते तं निहन्तुमकाले कालतां गतौ ।। २६८ ।। सोऽपि देवस्तयोस्तेजःप्रसरं सोढुमक्षमः । निजं स्थानं ययौ साध्वोस्तयोश्चाऽजनि केवलम् ।। २६९ ॥ देवैश्च केवलज्ञानमहिमा विदधे तयोः । नत्वा रामश्च पप्रच्छोपसर्गविधिकारणम् ।। २७० ॥ तत्राऽऽख्यदेको महर्षिराख्यया कुलभूषणः । आसीन्नगर्यां पद्मिन्यां राजा विजयपर्वतः ॥२७१ ।। तस्याऽमृतस्वराख्योऽभूदु दूतो दूतस्य तस्य च । भार्योपयोगा तत्पुत्रावुदितो मुदितोऽपि च ।। २७२ ॥ वयस्यस्तस्य दूतस्य वसुभूतिरिति द्विजः । उपयोगा तदासक्ताऽजिंघांसदमृतस्वरम् ।। २७३ ।। नृपादेशाद्विदेशायाऽन्यदाऽगादमृतस्वरः । सह गच्छन् वसुभूतिर्मानें तं चाऽवधीच्छलात् ।। २७४ ।। वसुभूतिः पुरीमेत्य जनायैवमवोचत । कुतोऽपि कार्यादमृतस्वरेणाऽहं निवर्तितः ।। २७५ ।। शशंस चोपयोगायाः स नौ सम्भोगविघ्नकृत् । मया व्यापादितो मार्गे च्छलं लब्ध्वाऽमृतस्वरः ।। २७६ ।। साऽप्यूचे साध्वकार्षीस्त्वं जहि पुत्राविमावपि । अस्तु निर्मक्षिकमिति सोऽपि तत्प्रत्यपद्यत ।। २७७ ॥ दैवाच्छ्रुत्वा च तं मन्त्रं वसुभूतिसधर्मिणी । ईर्ष्णयाऽऽख्यच्च तत्सून्वोर्मुदितस्योदितस्य च ॥ २७८ ॥ उदितेन रुषा सद्यो वसभूतिर्निपातितः । मृत्वैष नलपल्ल्यां स म्लेच्छः समुदपद्यत ।। २७९ ।। धर्मं श्रुत्वाऽन्यदा राजा महर्षेर्मतिवर्धनात् । प्रव्रज्यामाददे तावप्युदितो मुदितोऽपि च ॥२८० ॥
| उपसर्गकारणप्रच्छनम् ।
।।१३५ ॥
१ यमत्वं प्राप्तौ रामलक्ष्मणौ । २ हन्तुमैच्छत् ।