________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३४॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
जितपद्मा तदानीं च तत्राऽऽगाद्राजकन्यका । बभूव लक्ष्मणं प्रेक्ष्य क्षणाच्च मदनातुरा ।। २५१ ॥ तया सद्योऽनुरागिण्या वार्यमाणोऽपि भूपतिः । चिक्षेप लक्ष्मणायाऽऽशु दुःसहं शक्तिपञ्चकम् ।। २५२ ।। द्वे कराभ्यां द्वे कक्षाभ्यां दन्तैरेकां च लक्ष्मणः । अग्रहीज्जितपद्मायाः कन्याया मनसा सह ।। २५३ ।। जितपद्माऽक्षिपत्तत्र स्वयं वरणमालिकाम् । उदुह्यतामियं कन्येत्यब्रवीत्पार्थिवोऽपि तम् ।। २५४ ।। लक्ष्मणोऽप्यवदद् बाह्योपवनेऽस्ति ममाऽग्रजः । रामो दाशरथिस्तेन परतन्त्रोऽस्मि सर्वदा ।। २५५ ॥ तौ रामलक्ष्मणौ ज्ञात्वा तत्क्षणं स क्षमापतिः । गत्वा रामं नमश्चक्रे स्ववेश्मन्यानिनाय च ।। २५६ ।। महत्या प्रतिपत्त्या स राजा राममपूजयत् । सामान्योऽप्यतिथिः पूज्यः किं पुनः पुरुषोत्तमः ? ॥२५७ ॥ ततोऽपि चलिते रामे सौमित्रिस्तं महीपतिम् । उवाच परिणेष्यामि व्यावृत्तस्त्वत्सुतामिति ।। २५८ ॥ निशायां निर्ययौ रामः प्राप सायं च पत्तनम् । वंशस्थलं नाम वंशशैलाख्याद्रितटस्थितम् ।। २५९ ।। तस्मिन् सभूपति लोकमालुलोके भयाकुलम् । पप्रच्छ च नरं कञ्चिद्रामस्तद्भयकारणम् ।। २६० ।। आचख्यौ पुरुषः सोऽपि तार्तीयीकोऽद्य वासरः । अमुष्मिन् पर्वते रात्रौ रौद्रस्योच्छलतो ध्वनेः ॥२६१ ॥ तद्भयाद्रात्रिमन्यत्र गमयत्यखिलो जनः । प्रातश्च पुनरायाति कष्टा नित्यमियं स्थितिः ।। २६२ ॥ ततश्च कौतुकाद्रामः प्रेरितो लक्ष्मणेन च । तत्राऽऽरुरोहाऽपश्यच्च कायोत्सर्गस्थितौ मुनी ॥२६३ ॥ भक्त्या ववन्दिरे तौ तु जानकीरामलक्ष्मणाः । तदग्रेऽवादयद्रामो गोकर्णार्पितवल्लकीम् ॥२६४ ।। हृद्यं जगौ च सौमित्रिामरागमनोहरम् । चित्राङ्गहारकरणं सीता देवी नर्त च ।। २६५ ।।
लक्ष्मणेन | सह जितपद्याया |लग्नः , वंशस्थले त्रयाणामागमनम् ।
॥१३४ ।।
१ वल्लकी वीणा।