________________
त्रिषष्टिशलाकापुरुषचरिते |१३३॥
| सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
अद्यैव परिणीय त्वं सहैव नय मां प्रभो ! । त्वद्वियोगाच्च्छलं प्राप्य नेष्यत्यपरथाऽन्तकः ।। २३६ ।। अन्वनैषीलक्ष्मणोऽथ भ्रातुः शुश्रूषको ह्यहम् । शुश्रूषाविघ्नकृन्मा भूः सहाऽऽयान्ती मनस्विनि ! ॥२३७ ।। प्रापय्याऽभीप्सितं स्थानं ज्यायांसं वरवर्णिनि! । त्वां समेष्यामि भूयोऽपि वास्तव्या हृदये ह्यसि ।। २३८ ॥ घोरेभ्यः शपथेभ्यो यं त्वं कारयसि मानिनि! । तं करोमि पुनरिहाऽऽगमप्रत्ययहेतवे ।। २३९ ॥ न चेदायामि भूयोऽपि तदहं रात्रिभोजिनाम् । गृह्येऽहंसेति शपथं सौमित्रिः कारितस्तया ॥ २४० ॥ रात्रिशेषे ततो रामः ससीतालक्ष्मणोऽचलत् । क्रमाद्वनानि लच्चित्वा प्राप क्षेमाअलि पुरीम् ।। २४१ ॥ रामस्तद्बहिरुद्याने वन्याहारैः फलादिभिः । बुभुजे लक्ष्मणानीतैर्जानकीकरसंस्कृतैः ।। २४२ ।। तत्र राममनुज्ञाप्य कौतुकात्प्राविशत् पुरीम् । सौमित्रिस्तत्र चाऽऔषीदुच्चैराघोषणामिति ।। २४३ ।। शक्तिप्रहारं सहते योऽमुष्य पृथिवीपतेः । तस्मै परिणयनाय ददात्येष स्वकन्यकाम् ।। २४४ ।। तेन चाऽऽघोषणाहेतुं पृष्ट एकोऽवदत् पुमान् । अत्राऽस्ति शत्रुदमनो नाम राजा महाभुजः ।। २४५ ॥ तस्याऽस्ति कनकादेवीकुक्षिजा वरकन्यका । जितपद्मति पायाः सबैकं पद्मलोचना ।। २४६ ॥ वरस्यौजःपरीक्षार्थमिदमारभ्यते ततः । प्रत्यहं क्ष्माभुजाऽनेन तादृक्षो नैति कोऽपि ना ।। २४७ ॥ श्रुत्वेत्थं लक्ष्मणोऽगच्छत्तं राजानं सभास्थितम् । कुतो हेतोः ? कुतस्त्यस्त्वं ? तत्पृष्टश्चैवमब्रवीत् ।। २४८ ॥ अहं भरतदूतोऽस्मि गच्छन्नर्थेन केनचित् । तव कन्यामिमां श्रुत्वा परिणेतुमिहाऽऽगमम् ।। २४९ ।। सहिष्यसे शक्तिघातं ममेत्युक्तो महीभुजा । किमेकेन ? सहिष्येऽहं पञ्चेत्यूचे च लक्ष्मणः ॥२५०॥ १ अन्यथा । २ वरः वर्णो यस्याः सा वरवर्णिनी तत्सम्बोधने ।३ पापेन । ४ लक्ष्म्याः सद्म-गृहम् । ५ बलपरीक्षार्थम् ।
लक्ष्मणेन
जितपद्याया लग्नः ।
।।१३३ ।।