________________
त्रिषष्टिशलाकापुरुषचरिते
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
॥१३२॥
मृगं व्याघ्र इवाऽऽदाय तं नृव्याघ्रश्चचाल सः । दृश्यमानो जनैः पौरैरुत्त्रासतरलेक्षणैः ।। २२१ ॥ अथ तं मोचयामास मैथिली करुणापरा । सद्यो भरतसेवां च सौमित्रिः प्रत्यपादयत् ।। २२२ ॥ स्त्रीवेषमथ सञ्जहे सर्वेषां क्षेत्रदेवता । अज्ञासीदतिवीर्योऽपि तौ तदा रामलक्ष्मणौ ।। २२३ ।। अतिवीर्यस्तयोः पूजां महतीं विदधे ततः । दध्यौ च मानध्वंसेन मानी वैराग्यमुच्चकैः ।। २२४ ॥ कि सेविष्येऽहमप्यन्यमित्यहङ्कारभाग्घृदि । दीक्षार्थी विजयरथे पुत्रे राज्यं न्यधत्त सः ।। २२५ ॥ द्वितीयो भरतो मेऽसि शाधि क्षमा प्रव्रज स्म मा । रामेणेत्थं निषिद्धोऽपि स प्रावाजीन्महामनाः ।। २२६ ।। तत्सूनुर्विजयरथो रतिमालाभिधा निजाम् । लक्ष्मणाय ददौ जामि तां प्रेतीयेष लक्ष्मणः ।। २२७ ॥ ययौ ससैन्यो विजयपुरं रामोऽपि पत्तनम् । अयोध्यां विजयरथो भरतं सेवितुं पुनः ।। २२८ ।। विज्ञाततदुदन्तोऽपि भरतो गरिमाचलः । सच्चकार तमायातं सन्तो हि नतवत्सलाः ।। २२९ ।। कनिष्ठां रतिमालाया नाना विजयसुन्दरीम् । ददौ स्वसारं स्त्रीसारं भरताय स भूभुजे ॥ २३० ॥ तदा च विहरंस्तत्राऽतिवीर्यो मुनिराययौ । वन्दित्वा क्षमयाञ्चक्रे भरतेन स भूभुजा ॥२३१ ।। विसृष्टः सप्रसादेन भरतेन महीभुजा । सानन्दो विजयरथो नन्द्यावर्तपुरं ययौ ।। २३२ ।। महीधरमनुज्ञाप्य रामे गन्तुं समुद्यते । वनमालामापप्रच्छे यियासुरथ लक्ष्मणः ।। २३३ ।। जगाद वनमालाऽपि बाष्पपूर्णविलोचना । प्राणत्राणं तदाऽकार्षीः प्राणेश! मम किं मुधा ? ||२३४ ॥ वरं भवेत् सुखमृत्युस्तदैव मम वल्लभ ! । न त्वर्धवैशसमिदं दुःखं त्वद्विरहोत्थितम् ।। २३५ ।। १ अधिकत्रासेन चपलनेत्रैः । २ स्वसारम् । ३ जग्राह । ४ अर्धवधसदृशम् ।
रामादिभिरतिवीर्याभिमानध्वंसः।
॥ १३२ ।।