________________
त्रिषष्टिशलाका
पुरुषचरिते
119 39 11
एवमस्त्विति तेनोक्तस्तत्पुत्रबलसंयुतः । नन्द्यावर्तपुरं रामः ससीतालक्ष्मणो ययौ । २०६ ॥ उषितं बहिरुद्याने रामं तत्क्षेत्रदेवता । अभाषत महाभाग ! किमभीष्टं करोमि ते ? ।। २०७ ।। ननः किमपि कर्तव्यमित्युक्ते राघवेण तु । साऽभ्यधादेवमेतद्धि तथाऽप्युपकरोम्यदः ।। २०८ ॥ अतिवीर्यो जितः स्त्रीभिरिति तस्याऽयशस्कृते । ससैन्यस्य करिष्यामि स्त्रीरूपं कामिकं तव ॥ २०९ ॥ स्त्रीराज्यमिव तत्सैन्यं स्त्रीरूपमभवत्क्षणात् । स्त्रीरूपौ रामसौमित्री चाऽभूतां सुन्दराकृती ।। २१० ।। महीधरेण स्व सैन्यं तव साहाय्यहेतवे । प्रैषीदमिति रामस्तं द्वाःस्थेनाऽज्ञापयन्नृपम् ।। २११ ।। अतिवीर्योऽप्युवाचैवं स्वयं नाऽऽगान्महीधरः । कृतं तदस्य सैन्येन मुमूर्षोर्बहुमानिनः ।। २१२ ।। जेष्याम्येकोऽपि भरतं सहायाः किं ममाऽपि हि ? । निर्वास्यतां द्रुतमिदं तत्सैन्यमयशस्करम् ॥ २१३ ॥ अथाऽन्यः कश्चिदप्युचे स्वयमागान्न केवलम् । स प्रत्युतोपहासाय स्त्रीसैन्यं प्राहिणोदिह ।। २१४ । तच्छ्रुत्वा सुमहाक्रोधं नन्द्यावर्तेश्वरोऽकरोत् । स्त्रीरूपधारिणस्ते च रामाद्या द्वारमाययुः ।। २१५ ।। आदिक्षदतिवीर्योऽपि दासीवदिमिकाः स्त्रियः । गाढं गृहीत्वा ग्रीवासु निर्वास्यन्तां पुराद् बहिः ॥ २१६ ॥ समन्तात्तस्य सामन्ता उत्थाय सपदातयः । स्त्रीसैन्यं तदुपद्रोतुं प्रावर्तन्त महाभुजाः ॥ २१७ ।। रामभद्रो भुजस्तम्भेनेभस्तम्भमथोच्चकैः । समुत्पाट्याऽऽयुधीकृत्य तान् समन्तादपातयत् ।। २१८ ।। तेन सामन्तभङ्गेनाऽतिवीर्यः कुपितो भृशम् । रणाय स्वयमुत्तस्थे खड्गमाकृष्य भीषणम् ॥ २१९ ॥ अथ तत्खड्गमाच्छिद्य लक्ष्मणस्तत्क्षणादपि । तमाचकर्ष केशेषु तद्वस्त्रेण बबन्ध च ।। २२० ।।
सप्तमं पर्व पञ्चमः
सर्गः रामलक्ष्मणरावण
चरितम् ।
रामादिभिरतिवीर्याभि
मानध्वंसः ।
।। १३१ ।।