________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व पञ्चमः सर्गः | रामलक्ष्मणरावणचरितम् ।
॥१३०॥
उत्तारितज्ये सौमित्रौ सुस्थितः सन्महीधरः । प्रेक्ष्य रामं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ।। १९१ ॥ उवाच च तव भ्रात्रेऽमुष्मै सौमित्रये मया । स्वयं जातानुरागेति कल्पितेयं पुराऽप्यभूत् ।। १९२ ।। इदानीमनयोर्जज्ञे मद्भाग्येन समागमः । जामाता लक्ष्मणस्त्वं च सम्बन्धी दुर्लभः खलु ॥ १९३ ।। इत्युदित्वा महत्या च प्रतिपत्त्या महीधरः । निनाय जानकीरामलक्ष्मणान्निजसद्मनि ।। १९४ ।। तेषु तत्र च तिष्ठत्सु कदाचन सभास्थितम् । एत्याऽतिवीर्यराड्दूतो नृपमूचे महीधरम् ।। १९५ ।। नन्द्यावर्तपुराधीशोऽतिवीर्यो वीर्यसागरः । साहाय्यायाऽऽह्वयति त्वां जाते भरतविग्रहे ।। १९६ ।। भूयांसो भूभुजोऽभ्येयुस्तस्य दाशरथेर्बले । तत्त्वमप्यतिवीर्येणाऽऽहूयसे सुमहाबलः ।। १९७ ॥ अथैवं लक्ष्मणोऽपृच्छन्नन्द्यावर्तमहीभुजः । भरतक्ष्माभुजा सार्धं किं विरोधनिबन्धनम् ? ।। १९८ ॥ दूतोऽप्युवाच नः स्वामी भरताद् भक्तिमिच्छति । स तु प्रतीच्छति न तामिदं विग्रहकारणम् ।। १९९ ॥ रामः पप्रच्छ तं दूतमतिवीर्यस्य सङ्गरे । समर्थो भरतः किं भोस्तत्सेवां यन्न मन्यते ॥२०० ॥ दूतोऽप्यूचे महावीर्योऽतिवीर्यस्तावदेष नः । भरतोऽपि न सामान्यस्तद् द्वयोः संशयो जये ।।२०१ ।। इत्युक्तवन्तं तं दूतमागच्छाम्येष सत्वरम् । इत्युक्त्वा व्यसृजद्राजा रामं चैवमभाषत ।। २०२ ।। अहो ! अज्ञत्वमेतस्याऽतिवीर्यस्याऽल्पमेधसः । यदस्मानयमाहूय भरतं योधयिष्यति ।। २०३ ।। तत्सर्वसेनया गत्वाऽनुपलक्षितदौर्खदा । अमुमेव हनिष्यामो भारतादिव शासनात् ।। २०४ ।। ऊचे रामोऽत्र तिष्ठ त्वं त्वत्सुतैः सबलैः सह । तत्राऽहमेव यास्यामि करिष्यामि यथोचितम् ।। २०५ ।। १ अज्ञातेन शत्रुत्वेन ।
वनमालालक्ष्मणयोस्समागमः, अतिवीर्यस्य दूतागमनम्।
॥ १३०